इतिहासस्य पृष्ठेषु ३० मे-मासः - ‘उदन्तमार्तण्डः’ इत्यस्मात् हिन्दी-पत्रकारितायाः ऐतिहासिकः प्रारम्भः अभवत्
भारतीयपत्रकारितायाः इतिहासे ३० मे-मासः अत्यन्तं महत्त्वपूर्णः मन्यते। अस्मिन्नेव दिने १८२६ तमे वर्षे हिन्दीभाषायाः प्रथमसमाचारपत्रस्य ‘उदन्तमार्तण्डः’ इत्यस्य प्रकाशनम् आरब्धम् आसीत्। एषः ऐतिहासिकः प्रयत्नः हिन्दीपत्रकारितायाः आधारशिलां स्थापितवान्
इतिहासस्य पृष्ठेषु ३० मे-मासः - ‘उदन्तमार्तण्डः’ इत्यस्मात् हिन्दी-पत्रकारितायाः ऐतिहासिकः प्रारम्भः अभवत्


भारतीयपत्रकारितायाः इतिहासे ३० मे-मासः अत्यन्तं महत्त्वपूर्णः मन्यते। अस्मिन्नेव दिने १८२६ तमे वर्षे हिन्दीभाषायाः प्रथमसमाचारपत्रस्य ‘उदन्तमार्तण्डः’ इत्यस्य प्रकाशनम् आरब्धम् आसीत्। एषः ऐतिहासिकः प्रयत्नः हिन्दीपत्रकारितायाः आधारशिलां स्थापितवान् तथा भारतीयभाषीय-पत्रकारितायै नूतनां दिशं प्रदत्तवान्।

पण्डित-जुगलकिशोर-शुक्लेन आरब्धः ‘उदन्तमार्तण्डः’ कोलकातानगरात् प्रकाशितः भवति स्म। एतत् अष्टपृष्ठात्मकं साप्ताहिकसमाचारपत्रम् आसीत्, यः प्रत्येकं मङ्गलवासरे पाठकेभ्यः प्राप्यते स्म। अस्य पत्रस्य आकारः प्रायः १२ इञ्च×८ इञ्च परिमितः आसीत् तथा प्रथमाङ्कस्य प्रायः ५०० प्रतयः प्रकाशिताः आसन्।

तस्मिन् काले हिन्दीपत्रकारितायाः कृते साधनानां पाठकवर्गस्य च सीमाः आसन्। आर्थिककठिनताभिः तथा शासकीय-सहायतायाः अभावेन एतत् समाचारपत्रं दीर्घकालं यावत् न चलितुं शक्नोत् स्म तथा प्रायः ७९ अङ्कानन्तरं तस्य प्रकाशनं निरुद्धम्। तथापि अल्पकाले एव अनेन पत्रेण हिन्दीभाषायां भारतीयपत्रकारिताक्षेत्रे च प्रगाढा छविः स्थापिता।

‘उदन्तमार्तण्डः’ इत्यस्य प्रारम्भः हिन्दीपत्रकारितायाः जन्मरूपेण दृष्टः भवति। अस्याः ऐतिहासिकोपलब्धेः स्मृत्यर्थं प्रतिवर्षं ३० मे-मासे ‘हिन्दीपत्रकारिता-दिवसः’ आचर्यते। अयं दिवसः हिन्दीपत्रकारितायाः सम्बद्धानां जनानां योगदानं, संघर्षं समाजे तेषां भूमिकां च स्मर्तुं अवसररूपेण अपि मन्यते।

महत्त्वपूर्ण-घटनाचक्रम्

• १८२६ — प्रथमस्य हिन्दी-साप्ताहिकपत्रस्य ‘उदन्तमार्तण्डः’ इत्यस्य प्रकाशनम्।• १९६३ — गोवा-विधानसभायाः गठनम्।• १९८१ — बाङ्ग्लादेशस्य राष्ट्रपतिः जिया-उर-रहमानः स्वस्य अष्टसहयोगिभिः सह हतः, देशे आपत्कालः प्रवर्तितः।• १९८७ — गोवानगराय भारतस्य राज्यपदं प्राप्तम्। गोवा भारतस्य २६तमं राज्यं जातम्।• १९९६ — षड्वर्षीयः बालकः गेधुन-चोकी-नाइया नूतनः पञ्चेन-लामा रूपेण चयनितः।• १९९८ — पाकिस्तानेन पुनः (षष्ठः) परमाणुपरीक्षणं कृतम्, अफगानिस्ताने भीषणभूकम्पेन ५००० जनानां मृत्योः आशङ्का जाता।• २००३ — नेपालस्य कार्यवाहक-प्रधानमन्त्री लोकेन्द्रबहादुर-चन्दः स्वपदात् त्यागपत्रम् अयच्छत्।• २००४ — सऊदी-अरबे बन्धकसंकटस्य समाप्तिः, किन्तु द्वाभ्यां भारतीयाभ्यां सहितं २२ जनाः हताः।• २००७ — अन्ताराष्ट्रिय-संयुक्तराष्ट्र-शान्तिरक्षकदिवसे १०७ शान्तिरक्षकाः पुरस्कृताः।• २००८ — सुजाना-मेटल-प्रोडक्ट-लिमिटेड् इत्यनेन विशाखापट्टणे १८० कोटिरूप्यकव्ययेन तिस्रः इस्पात-विभागाः अधिगृहीताः।• २००८ — अफगानिस्तानस्य एकस्मिन् जनपदे तालिबानेन अधिकारः स्थापितः।• २०१२ — विश्वनाथन-आनन्दः पञ्चमवारं विश्वशतरञ्ज-चैम्पियन अभवत्।• २०१२ — लाइबेरियादेशस्य पूर्वराष्ट्रपतिः चार्ल्स-टेलरः सियरा-लियोनस्य गृहयुद्धे मानवताविरोधि-अपराधेषु दोषी घोषितः तथा ५० वर्षाणां कारावासदण्डेन दण्डितः।

जन्म

• १९०९ — पण्डित-मुखराम-शर्मा — भारतीय-हिन्दी-चलच्चित्राणां सुप्रसिद्धः कथा-पटकथा-कथालेखकः।• १९३५ — देबू-चौधरी — भारतस्य प्रख्यातः सितारवादकः।• १९४७ — वी.नारायणसामी — पुदुचेरी-प्रदेशस्य दशमः मुख्यमन्त्री।

निधनम्

• १४३१ — जोआन-ऑफ-आर्क — फ्रान्सदेशस्य राष्ट्रीयनायिका सन्ता च।• १६०६ — गुरु-अर्जुन-देवः — सिक्खसम्प्रदायस्य पञ्चमः गुरुः।• १९५५ — एन.एम.जोशी — भारते ‘ट्रेड्-यूनियन-आन्दोलनस्य’ जन्मदाता।• १९८९ — वीरबहादुर-सिंहः — भारतीयः राजनीतिज्ञः।• १९९१ — उमाशङ्कर-दीक्षितः — भारतीयस्वातन्त्र्यआन्दोलनस्य पुरोधा मानवतायाः पुजारी राष्ट्रवादस्य अग्रदूतः च।• २००० — रामविलास-शर्मा — आधुनिकहिन्दीसाहित्यक्षेत्रस्य सुप्रसिद्धः आलोचकः, निबन्धकारः, विचारकः कविः च।• २०१३ — ऋतुपर्णो-घोषः — बाङ्ग्ला-चलच्चित्राणां प्रसिद्धः निर्देशकः, लेखकः अभिनेता च।• २०१६ — देवेगोड़ा-जवरेगोड़ा — कन्नडभाषायाः लेखकः, लोकगीतकारः, शोधकर्ता विद्वान् च।

महत्त्वपूर्ण-अवसराः

• हिन्दीपत्रकारितादिवसः (‘उदन्तमार्तण्डः’ इत्यस्य प्रथमप्रकाशनस्य स्मृतौ)• गोवा-राज्य-स्थापनादिवसः

Hindusthan Samachar / Divya Ranjan