एआई तथा दत्तांश-विज्ञानम् अद्य उद्योगेषु नवाचारस्य जटिल-समस्यानां समाधानस्य च प्रमुखम् आधारम् - प्रो.सुतावने
प्रयागराजनगरम्, २९ मे-मासः (हि.स.)। भारतीय-सूचना-प्रौद्योगिकी-संस्थानम् इलाहाबादनगरम् ऑनलाइन-माध्यमेन “एक्जीक्यूटिव् एम.टेक इन आर्टिफिशियल इण्टेलिजेन्स एण्ड डाटा-साइन्स” इति कार्यक्रमं प्रारब्धुं गच्छति। अस्य सञ्चालनार्थं संस्थानेन टीमलीज़ एडटेक लिम
ट्रिपल आईटी


प्रयागराजनगरम्, २९ मे-मासः (हि.स.)। भारतीय-सूचना-प्रौद्योगिकी-संस्थानम् इलाहाबादनगरम् ऑनलाइन-माध्यमेन “एक्जीक्यूटिव् एम.टेक इन आर्टिफिशियल इण्टेलिजेन्स एण्ड डाटा-साइन्स” इति कार्यक्रमं प्रारब्धुं गच्छति। अस्य सञ्चालनार्थं संस्थानेन टीमलीज़ एडटेक लिमिटेड इत्यनेन सह सन्धि-ज्ञापनम् हस्ताक्षरितम्। एतत् सन्धिपत्रं संस्थानस्य पक्षतः कुलसचिवेन डॉ.मन्दर-सुभाष-कार्यकर्त्रा हस्ताक्षरितम्।

संस्थानस्य निदेशकः प्रो.मुकुल-शरद-सुतावने उक्तवान् यत् कृत्रिम-बुद्धिमत्ता तथा दत्तांश-विज्ञानम् अद्य उद्योगेषु नवाचारस्य जटिल-समस्यानां समाधानस्य च प्रमुखम् आधारं जातम् अस्ति। अनेन सन्धिना संस्थानं भविष्यस्य आवश्यकतानुरूपं व्यावसायिकान् उन्नत-क्षमताभिः सुसज्जितान् कर्तुं सशक्तं प्रासङ्गिकं च शैक्षणिक-मञ्चं प्रदातुं प्रयतते।

कार्यक्रमस्य समन्वयकः सूचना-प्रौद्योगिकी-विभागस्य विभागाध्यक्षः प्रो.मनीष-कुमार: अवदत् यत् एषः कार्यक्रमः अभियान्त्रिकी-प्रौद्योगिकी-संबद्ध-विषयेषु वा स्नातक-उपाधिधारिणां व्यावसायिकानां विद्यार्थिनां च कृते निर्मितः अस्ति। येषां अभ्यर्थिनां प्रोग्रामिङ्ग् तथा गणितस्य आधारभूत-ज्ञानं कार्यानुभवश्च भविष्यति, तेभ्यः प्राधान्यं प्रदास्यते।

सः अवदत् यत् प्रस्तावितः “एक्जीक्यूटिव एम.टेक” कार्यक्रमः द्विवर्षीयः ऑनलाइन-पाठ्यक्रमः भविष्यति, यस्य उद्देश्यं शिक्षार्थिभ्यः कृत्रिम-बुद्धिमत्ता, मशीन-लर्निंग् तथा दत्तांश-विज्ञान-क्षेत्रेषु दृढं सैद्धान्तिक-आधारं व्यावहारिक-कौशलं च प्रदातुम् अस्ति। पाठ्यक्रमे विविध-उद्योग-क्षेत्राणां वास्तविक-समस्यानां समाधानम् अनुप्रयोगेषु च विशेष-बलं दास्यते।

अस्मिन् अवसरे गीतिका-कोहली, अध्यक्षः “पार्टनरशिप एण्ड एलायन्सेज”, उक्तवती यत् अस्माभिः प्रस्तावित-कार्यक्रमस्य कृते ट्रिपल-आईटी-इत्यस्य तकनीकी-सेवा-प्रदातारूपेण सहकार्यं कृत्वा अत्यन्तं हर्षः अनुभूयते। कृत्रिम-बुद्धिमत्ता तथा दत्तांश-विज्ञानम् कार्यबल-परिवर्तनस्य महत्त्वपूर्ण-क्षेत्रे भवतः। एतादृशाः शैक्षणिक-कार्यक्रमाः व्यावसायिकानां स्वकीय-व्यवसाये नूतनाः प्रासङ्गिक-क्षमताः विकसितुं सहायकाः भविष्यन्ति।

अस्य सहकार्यस्य अन्तर्गतं टीमलीज़ एडटेक लिमिटेड कार्यक्रमस्य कृते ऑनलाइन-शिक्षण-अवसंरचना तथा शिक्षार्थि-सहभागिता-सेवाः उपलब्धाः करिष्यति। कार्यक्रमस्य औपचारिक-शुभारम्भः, प्रवेश-प्रक्रिया, आवेदन-संबद्धा विस्तृता सूचना च संस्थानेन शीघ्रमेव प्रकाशिता भविष्यति।

ट्रिपल-आईटी-इत्यस्य जनसम्पर्क-अधिकारी डॉ.पंकज-मिश्र: अवदत् यत् एतत् सहकार्यं कार्यरत-व्यावसायिकानां कृते उन्नत-स्नातकोत्तर-शिक्षायाः अधिक-सुलभतां प्रति महत्त्वपूर्णं पदम् मन्यते। वर्तमान-समये कृत्रिम-बुद्धिमत्ता, मशीन-लर्निंग तथा दत्तांश-विज्ञानस्य उपयोगः स्वचालनम्, विश्लेषणम्, निर्णय-निर्माणम्, ग्राहक-सेवाः, साइबर-सुरक्षा, स्वास्थ्य-सेवाः, विनिर्माणम् तथा वित्तीय-सेवाः इत्यादिषु अनेक-क्षेत्रेषु तीव्रतया वर्धते। अतः उद्योगानां आवश्यकतानुरूपाणां लचीला-प्रासङ्गिक-शिक्षण-कार्यक्रमाणां मागधापि निरन्तरं वर्धते।

डॉ. मिश्रः अवदत् यत् टीमलीज़ एडटेक लिमिटेड भारतस्य अग्रणी-शिक्षण-रोजगार-क्षमता-समाधान-प्रदातृ-निर्माणिषु अन्यतमा अस्ति। एषा संस्था उच्च-शिक्षण-संस्थानैः सह मिलित्वा ऑनलाइन-तथा ओडीएल-कार्यक्रमाणां सञ्चालनम्, विद्यार्थिनां रोजगार-क्षमता-वृद्धिं तथा कार्यबल-कौशल-उन्नयनार्थं कार्यं करोति।

Hindusthan Samachar / Divya Ranjan