चित्तौड़गढ़े 'गो सम्मान आह्वान अभियानस्य' जिला स्तरीयोपवेशनं सम्पन्नम्
चित्तौड़गढम्, 29 मईमासः (हि.स.)। मार्बललघुउद्योगसंस्थानस्य सभागारे ‘गोसम्मानआह्वानअभियान’ इत्यस्य जिलास्तरीया सभा आयोजिता। सभायां चित्तौड़गढ़जिलायाः सर्वाभ्यः तहसीलाभ्यः आगताः गोभक्तकार्यकर्तारः सहभागित्वं कृतवन्तः। राज्यस्तरीयप्रभारी बहादुरसिंहग
चित्तौड़गढ़ में गोसेवा सम्मान आव्हान अभियान की हुई बैठक।


चित्तौड़गढम्, 29 मईमासः (हि.स.)।

मार्बललघुउद्योगसंस्थानस्य सभागारे ‘गोसम्मानआह्वानअभियान’ इत्यस्य जिलास्तरीया सभा आयोजिता। सभायां चित्तौड़गढ़जिलायाः सर्वाभ्यः तहसीलाभ्यः आगताः गोभक्तकार्यकर्तारः सहभागित्वं कृतवन्तः। राज्यस्तरीयप्रभारी बहादुरसिंहगुर्जरः तथा जिलासंयोजकः गौरवसोमानी च चित्तौड़गढ़, निम्बाहेड़ा, बड़ीसादड़ी, कपासन, रावतभाटा, राशमी, डूंगला, गंगरार, बस्सी, बेगूं, भोपालसागर इत्यादिभ्यः आगतैः पदाधिकाऱिभ्यः २७ अप्रैल् दिनाङ्के तहसीलस्तरे समर्पितानां प्रार्थनापत्राणां विषये विस्तृतसूचनां प्राप्तवन्तौ।

जिलासंयोजकः गौरवसोमानी उक्तवान् यत् सर्वासां तहसीलानां प्रतिवेदनानि, हस्ताक्षरसङ्ख्या तथा गोप्रेमिणां उपस्थितिः उत्तमा आसीत्। तेन उक्तं यत् २७ अप्रैल् दिनाङ्के अनुजदासमहाराजः मूंगानाधाम, दिग्विजयराममहाराजः तथा सन्तशिवरामदासत्यागी खेरीआश्रमस्य सान्निध्ये जिलाकार्यालयं प्राप्तवन्तः तथा सहस्रशः गोभक्तानां हस्ताक्षरितप्रतिलिपयः समर्पितवन्तः। निम्बाहेड़ातः गोभक्तः राधेश्यामसुखवालमहाराजः सर्वान् गोभक्तान् मातृशक्तिं च आहूतवान् यत् २७ जुलाई दिनाङ्के द्विगुणितोत्साहेन सर्वाभ्यः तहसीलाभ्यः सहस्रशः गोभक्ताः मातरः भगिन्यश्च चित्तौड़गढ़ं प्राप्नुयुः। तस्मिन् दिने जिलाकलेक्टराय गोहत्यानिषेधार्थं गोमातरं राष्ट्रमातरं घोषयितुं च उद्घोषेण सह लक्षाधिकजनानां हस्ताक्षरितप्रतिलिपयः ज्ञापनं च समर्पितं भविष्यति।

सभायाः मुख्यवक्ता सन्तगोपालानन्दसरस्वतीमहाराजः उक्तवान् यत् देशव्यापिन्यः सर्वासु तहसीलासु समर्पितानि प्रार्थनापत्राणि हस्ताक्षरितप्रतिलिपयश्च सहस्रशः जिलाकार्यालयान् प्राप्तवन्ति। एषः देशस्य प्रथमः एतादृशः विस्तृतः शान्तिपूर्णः सुव्यवस्थितः आन्दोलनः आसीत् यस्य चर्चा सामाजिकमाध्यमैः सम्पूर्णविश्वे अभवत्। तेन उक्तं यत् कश्मीरतः कन्याकुमारीपर्यन्तं, लेहलद्दाखप्रदेशे, सुदूरनागालैण्डप्रदेशे च सर्वासु तहसीलासु सफलप्रदर्शनम् अभवत्। महाराजेन गोभक्ताः भाविचुनौतीनां कृते सज्जीभवितुं तथा कस्यामपि परिस्थितौ न प्रत्यागन्तुं आहूताः।

कार्यक्रमस्य सञ्चालनं प्रोफेसर् डॉ. सुशीलालढा इत्यनया कृतम्। प्रारम्भे तया संस्कृतभाषायां गोवन्दना प्रस्तुतिता। सभायाम् अनिलईनानी, नलिनपुगलिया, विपिननाहर, रतनपुरबिया, बहादुरसिंहचौगावडी, नीरजसुवालका, अभयखमेसरा, लोकेशजैन रावतभाटा, पूरननाथ भदेसर, बबलूमाली निम्बाहेड़ा, जानकीलाललक्षकार राशमी, दिलीपबारेगामा, देवेन्द्रसोमानी, रोहितसिंह कपासन, गोपालमनोरिया बड़ीसादड़ी, सुनीलमाली डूंगला, वरिष्ठनागरिकमञ्चस्य अमरकण्टकोपाध्यायः, रामनरेशडाडः, कविः नन्दकिशोरनिर्भरः इत्यादयः सम्मिलिताः आसन्। राष्ट्रसेविकासमितेः सेविकाः तथा अन्येषां महिला-सङ्गठनानां मातृशक्तिः अपि उपस्थिताः आसन्। अन्ते गोभक्तः गौरवसोमानी सर्वेषां प्रति आभारं व्यक्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani