Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 मईमासः (हि.स.)।केन्द्रीय-जलशक्ति-मन्त्री सी. आर्. पाटिलः भीषण-ग्रीष्म-तापस्य लू-प्रवाहस्य च मध्ये स्वच्छता-कर्मचारिणां समर्थनार्थं जन-भागीदारीम् आह्वयन् नागरिकेभ्यः तेषां प्रति संवेदनशीलता, सम्मानः तथा सहयोग-भावः धारयितुं प्रार्थनां कृतवान्। तेन उक्तं यत् “पानीयम्, छाया तथा सम्मानः” इत्यादयः लघवः उपक्रमाः अपि स्वच्छता-कर्मचारिणां कृते महत् समर्थनं भवितुं शक्नुवन्ति।
केन्द्रीयमन्त्री पाटिलः शुक्रवासरे माध्यमैः सह वार्तालापे उक्तवान् यत् देशस्य विभिन्न-प्रदेशेषु प्रचण्ड-ग्रीष्म-तापः वर्तमानः अस्ति, तथापि स्वच्छता-कर्मचारिणः ग्रामेषु, गलिषु तथा सार्वजनिक-स्थलेषु स्वच्छतां, सुरक्षिततां तथा स्वास्थ्यकर-वातावरणं निरन्तरं स्थापयितुं कार्यं कुर्वन्ति। तीव्र-सूर्य-तापे कठिन-परिस्थितिषु च अपि तेषां समर्पणम् सेवा-भावना च प्रेरणादायिनी अस्ति।
तेन उक्तं यत् प्रधानमन्त्री नरेन्द्र-मोदी अपि देशवासिनः आहूतवान् यत् एतेषु कठिन-दिवसेषु सर्वे जनाः पूर्ण-संवेदनशीलतया करुणया च परस्परं ध्यानं कुर्वन्तु। एतमेव संदेशं अग्रे नयन् तेन नागरिकेभ्यः आग्रहः कृतः यत् यदि समीपे कश्चन स्वच्छता-कर्मी कार्यं कुर्वन् दृश्यते, तर्हि तस्मै पानार्थं जलं प्रदीयताम्, किञ्चित्कालं छायायां विश्रामार्थं प्रेरणा दीयताम् तथा तेन सह सम्मानपूर्वकं व्यवहारः क्रियताम्।
पाटिलेन उक्तं यत् स्वच्छता केवलं शासनस्य अथवा एकस्य कर्मिणः उत्तरदायित्वं नास्ति, अपितु सम्पूर्ण-समाजस्य सामूहिकम् उत्तरदायित्वम् अस्ति। स्वच्छ-भारत-अभियानस्य (ग्रामीण) पक्षतः अपि नागरिकेभ्यः प्रार्थना कृता यत् ते स्वच्छता-सेवां कुर्वतां कर्मकाराणां कृते जलं, छायां तथा मानवीयं व्यवहारं सुनिश्चितं कुर्वन्तु।
तेन उक्तं यत् मानवता, करुणा तथा संवेदनशीलता इत्येतेषां भावानां सह स्वच्छता-कर्मचारिणां सहयोगं कृत्वा स्वच्छस्य, स्वस्थस्य तथा संवेदनशीलस्य भारतस्य निर्माणे सहभागिता कर्तुं शक्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani