जापानी तकनीक्या परिवर्तिष्यते बिलासपुरस्य चित्रं, 15 सहस्रेण पादपैः निर्मास्यते मियावाकीऑक्सीजनक्षेत्रम्
बिलासपुरे हरित क्रांतिः, अरपा तटे ‘मियावाकी ऑक्सीजनक्षेत्रस्य निर्माणम् रायपुरम् / बिलासपुरम् 29 मईमासः (हि.स.)।छत्तीसगढ़राज्ये पर्यावरणसंरक्षणस्य दिशि एका नूतना ऐतिहासिकी च पहल तीव्रतया आकारं गृह्णाति। वन-जलवायुपरिवर्तनमन्त्री केदारकश्यपस्य मार्ग
बिलासपुर  के अरपा तट पर तैयार हाे रही मियावाकी ऑक्सीजन जोन


बिलासपुरे हरित क्रांतिः, अरपा तटे ‘मियावाकी ऑक्सीजनक्षेत्रस्य निर्माणम्

रायपुरम् / बिलासपुरम् 29 मईमासः (हि.स.)।छत्तीसगढ़राज्ये पर्यावरणसंरक्षणस्य दिशि एका नूतना ऐतिहासिकी च पहल तीव्रतया आकारं गृह्णाति। वन-जलवायुपरिवर्तनमन्त्री केदारकश्यपस्य मार्गदर्शने बिलासपुरनगरस्य कोनीक्षेत्रे अरपानद्याः तटे जापानीय-“मियावाकी-तकनीक”-द्वारा सघनवृक्षारोपणं क्रियते। प्रायः १.५०० हेक्टेयर-क्षेत्रे १५ सहस्रपादपानां रोपणं कृत्वा अत्र आधुनिकं “मियावाकी-ऑक्सीजन-क्षेत्रम्” विकसितं क्रियते।

एषा परियोजना एस०ई०सी०एल०-बिलासपुरस्य सहयोगेन सञ्चाल्यते, यस्य उद्देश्यं नगरीयक्षेत्रे हरितिम्नः वृद्ध्या सह पर्यावरणसन्तुलनस्य जैवविविधतायाश्च सुदृढीकरणम् अस्ति। वनमन्त्री केदारकश्यपस्य निर्देशेन वनविकासनिगमेन एषा आधुनिक-जापानीय-तकनीक प्रदेशे निरन्तरं विस्तारितुं क्रियते।

मियावाकी-तकनीक वृक्षारोपणस्य वैज्ञानिक-प्रभावकारी च पद्धतिः मन्यते। अस्यां तकनीकायां पादपाः अत्यन्तं व्यवस्थितरीत्या न्यूनदूरत्वे रोप्यन्ते, येन ते सामान्यपादपानाम् अपेक्षया प्रायः दशगुणं शीघ्रतरं वर्धन्ते। तेन सह एतत् वनं सामान्यवनानाम् अपेक्षया ३० गुणाधिकं सघनं तथा १०० गुणाधिकजैवविविधतायुक्तं मन्यते।

वृक्षारोपणकार्याय भूमौ प्रायः एकमीटर-गाम्भीर्यपर्यन्तं ट्रेञ्चः निर्मीय उपजाऊ-मृत्तिका स्थाप्यते। ततः अनन्तरं पादपाः तेषाम् ऊर्ध्वता-संरचनानुसारं हाई, मिडिल तथा स्माल-कैनोपी-श्रेणीषु विभज्य वैज्ञानिकरीत्या रोप्यन्ते। सर्वेषां पादपानां मध्ये प्रायः एकमीटर-दूरता स्थापिता अस्ति, येन न्यूनक्षेत्रे अधिकतमहरितिमा विकसितुं शक्येत।

वनमन्त्री केदारकश्यपः उक्तवान् यत् प्रदेशशासनं पर्यावरणसंरक्षणं हरितविकासं च सर्वोच्चप्राथमिकतां ददाति। मियावाकी-तकनीकस्य माध्यमेन न्यूनभूमौ शीघ्रं सघनवनानि निर्माय नगरीयक्षेत्रेषु प्रदूषणनियन्त्रणं, भूजलसंरक्षणं स्वच्छपर्यावरणस्य सुनिश्चितीकरणं च कर्तुं शक्यते। तेन उक्तं यत् एषा पहल आगामिकाले बिलासपुरनगरस्य कृते “हरित-फुफ्फुस”-रूपेण कार्यं करिष्यति।

उल्लेखनीयम् अस्ति यत् अस्मात् पूर्वमपि वनविकासनिगमेन एन०टी०पी०सी०-सीपतस्य सहयोगेन बिलासपुरजिले ९४ सहस्रपादपानां सफलं मियावाकी-वृक्षारोपणं कृतम्, यत् अधुना शीघ्रं विकसितं भूत्वा हरितवनस्य स्वरूपं धारयति।

अरपातटे विकसितं भवत् एतत् नूतनं मियावाकी-ऑक्सीजन-क्षेत्रं न केवलं नगरस्य सौन्दर्यं वर्धयिष्यति, अपितु छत्तीसगढ़शासनस्य दूरदर्शिचिन्तनस्य, पर्यावरणीयप्रतिबद्धतायाः हरितभविष्यस्य सङ्कल्पस्य च सशक्तम् उदाहरणं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani