वनवासी आदिवासी द्वौ अपि शब्दौ भारतीय समाजस्य संस्कृतेश्च परिचयः : दुलालः
पूर्वी सिंहभूमः, 29 मईमासः (हि.स.)। पूर्वमन्त्री तथा भाजपानेता दुलालभुईयां केन्द्रीयगृहमन्त्री अमितशाहस्य वक्तव्यं प्रति काङ्ग्रेसदलेन कृतस्य पुतलदहनस्य विषये तीव्रां प्रतिक्रिया व्यक्तवान्। तेन उक्तं यत् गृहमन्त्रिणा प्रयुक्तस्य “वनवासी” इति शब
पूर्व मंत्री दुलाल भुईयां का फाइल फोटो


पूर्वी सिंहभूमः, 29 मईमासः (हि.स.)।

पूर्वमन्त्री तथा भाजपानेता दुलालभुईयां केन्द्रीयगृहमन्त्री अमितशाहस्य वक्तव्यं प्रति काङ्ग्रेसदलेन कृतस्य पुतलदहनस्य विषये तीव्रां प्रतिक्रिया व्यक्तवान्। तेन उक्तं यत् गृहमन्त्रिणा प्रयुक्तस्य “वनवासी” इति शब्दस्य मिथ्याअर्थं निष्कास्य केचन जनाः समाजे भ्रमं घृणां च प्रसारयितुं प्रयतन्ते, यत् दुःखदं विषयम् अस्ति।

शुक्रवासरे दुलालभुईयां उक्तवान् यत् “वनवासी” तथा “आदिवासी” इति उभौ शब्दौ भारतीयसमाजस्य संस्कृतेश्च परिचायकौ स्तः। एतयोः शब्दयोः राजनैतिकदृष्ट्या अवलोकनस्य अपेक्षया तयोः ऐतिहासिकं सामाजिकं च महत्त्वं बोधनीयम्। तेन उक्तं यत् “वनवासी” इति शब्दः तेषां समुदायानां कृते प्रयुज्यते, येषां जीवनं वनैः, प्रकृत्या, परम्पराभिश्च सम्बद्धम् अस्ति, यदा “आदिवासी” इति शब्दः मूलनिवासिनां परिचयं दर्शयति। उभयोः शब्दयोः उद्देश्यं समाजस्य तस्य वर्गस्य सम्मानं गौरवं च प्रकटयितुम् अस्ति, न तु कस्यचित् भावनां आहतुं।

पूर्वमन्त्री उक्तवान् यत् देशस्य जनजातीयसंस्कृतिः भारतस्य समृद्धतमासु संपत्सु अन्यतमा अस्ति। जनजातीयसमाजेन प्रकृतिसंरक्षणे, संस्कृतिपरम्परयोः रक्षणे च सदैव महत्त्वपूर्णा भूमिका निर्वहिता। तेन उक्तं यत् केन्द्रीयशासनं प्रधानमन्त्रिणो नरेन्द्रमोदिनो नेतृत्वे आदिवासीसमाजस्य विकासाय, शिक्षायै, स्वास्थ्याय सम्मानाय च निरन्तरं कार्याणि करोति।

दुलालभुईयां काङ्ग्रेसनेतॄन् तेषां समर्थकदलञ्च लक्ष्यीकृत्य उक्तवान् यत् राजनैतिकलाभार्थं शब्दानां विकृतरूपेण प्रस्तुतीकरणं समुचितं नास्ति। काङ्ग्रेसदलम् आदिवासिनः उद्दीप्य स्वस्वार्थं साधयति। एतेन समाजे अनावश्यकविवादाः उत्पद्यन्ते। तेन उक्तं यत् जनजातीयसमाजस्य विभाजनस्य राजनीति निरोद्धव्या तथा सर्वैः मिलित्वा तेषां अधिकाराणां, सम्मानस्य विकासस्य च कृते कार्यं करणीयम्।

तेन उक्तं यत् झारखण्डस्य भूमिः आदिवासीवीराणां संस्कृतेश्च भूमिः आसीत्। अत्रत्याः जनाः भ्रातृत्वे सामाजिकसमरसतायां च विश्वासं कुर्वन्ति। अतः कस्यापि शब्दस्य विषये विवादं निर्माय समाजे वैमनस्यप्रसारणस्य प्रयासः न कर्तव्यः।

---------------

Hindusthan Samachar / Dheeraj Maithani