Enter your Email Address to subscribe to our newsletters

बेंगलुरुनगरम्, २९ मे-मासः (हि. स.)। कर्णाटक-राज्यस्य मुख्यमन्त्री-पदात् सिद्धारमैया-इत्यस्य त्यागपत्रं राज्यपालेन थावरचन्द-गहलोत-वर्येण अद्य आधिकारिकरूपेण स्वीकृतम्।
संवैधानिक-प्रक्रियायाः अनुसारं राज्यपालेन त्यागपत्रे हस्ताक्षराणि कृतानि, तथा च अस्मिन् विषये राजभवनात् आधिकारिकः आदेशः अपि निर्गतः। तथापि नूतन-सर्वकार-निर्माणपर्यन्तं सिद्धारमैया अग्रिम-द्वि-त्रिदिनानि कार्यवाहक-मुख्यमन्त्रीरूपेण पदे एव स्थास्यति।
राज्यपालस्य राजधानीतः बहिः प्रवास-स्थितेः कारणात् गुरुवासरे मुख्यमन्त्रिणा सिद्धारमैया-इत्यनेन स्वस्य त्यागपत्रं राज्यपालस्य विशेष-सचिवाय समर्पितम् आसीत्। सचिवेन तत् स्वीकृतम्, किन्तु संवैधानिक-नियमानुसारं राज्यपालस्य औपचारिक-हस्ताक्षराणि आवश्यकानि आसन्।
गुरुवासर-रात्रौ इन्दौरतः बेंगलुरु-नगरं प्रत्यागतः राज्यपालः थावरचन्द-गहलोतः शुक्रवासरे प्रातः त्यागपत्रस्य समीक्षां कृत्वा तस्य औपचारिकीं स्वीकृतिं दत्तवान्।
Hindusthan Samachar / Divya Ranjan