Enter your Email Address to subscribe to our newsletters

- पादपानां रोगान्परिचीय तत्कालं ददाति उपचारपरामर्शान्
भोपालम्, 29 मईमासः (हि.स.)।
कृषिक्षेत्रे एआई, ड्रोन, सेन्सराधारितप्रौद्योगिकी तथा डिजिटलसमाधानानां उपयोगः तीव्रगत्या वर्धते। अस्यैव क्रमस्य अन्तर्गतं मध्यप्रदेशस्य जबलपुरस्थितस्य जवाहरलालनेहरूकृषिविश्वविद्यालयस्य एम्.टेक्. छात्रेण आर्यनचन्द्रेण विकसितं “प्लांट डॉक्टर” नामकं एआई आधारितं स्मार्टयन्त्रम् कृषकाणां कृते उपयोगी प्रौद्योगिकीसमाधानरूपेण समुपस्थितम् अस्ति।
वास्तवतः मुख्यमन्त्रिणः डॉ. मोहनयादवस्य नेतृत्वे प्रदेशे वर्ष २०२६ “कृषककल्याणवर्ष” इति रूपेण आचर्यते। कृषकाणां आयवृद्धये, कृषिक्षेत्रे आधुनिकप्रौद्योगिकीनां उपयोगस्य प्रोत्साहनाय तथा कृषिं अधिकलाभकारीं कर्तुं विविधस्तरेषु नवाचाराः प्रोत्साह्यन्ते। अस्यामेव दिशि छात्रः आर्यनचन्द्रः कृषकाणां कृते सस्यरोगाणां त्वरितपरिचयम् उपचारसम्बद्धां सटीकसूचनां च प्रदातुं प्रायः दशमासपर्यन्तं संशोधनपरिश्रमयोः अनन्तरं “प्लांट डॉक्टर” नामकं पोर्टेबल स्टैण्डअलोन एआई यन्त्रं विकसितवान्। एतन्नवाचारः कृषकाणां कृते क्षेत्रस्तरे एव रोगपरिचयम् उपचारसुझावान् वैज्ञानिकपरामर्शं च प्रदातुं सहायकरूपेण कार्यं करोति।
५६ प्रकारकसस्यरोगपरिचये समर्थम्
जनसंपर्काधिकारिणी जूहीश्रीवास्तवा शुक्रवासरे सूचना प्रदत्ता यत् एतद्यन्त्रं दश प्रमुखसस्येषु भवन्तीनां ५६ प्रकारकरोगाउणां परिचयं कर्तुं समर्थम् अस्ति। अस्य विशेषता अस्ति यत् अस्य संचालनार्थं कस्यचित् विशेषप्रौद्योगिकीज्ञानस्य आवश्यकता नास्ति। यन्त्रस्य उपयोगः अत्यन्तं सरलः अस्ति। कृषकः प्रथमं सम्बद्धसस्यस्य चयनं करोति, ततः प्रभावितपत्रस्य अथवा पादपस्य चित्रं यन्त्रे स्थापितेन कैमरेण गृह्यते। केवलं कतिपयेषु सेकेण्डेषु यन्त्रं एआई आधारितविश्लेषणं कृत्वा रोगस्य परिचयं उपचारसम्बद्धान् औषधिपरामर्शान् च प्रददाति।
ऑफलाइन उपयोगस्य न्यूनव्ययस्य च विशेषता
तया उक्तं यत् ग्रामीणक्षेत्रेषु इंटरनेट् तथा नेटवर्क् सुविधायाः उपलब्धतां दृष्ट्वा “प्लांट डॉक्टर” पूर्णतया ऑफलाइन मोड् इति पद्धत्यां विकसितः अस्ति, येन क्षेत्रेषु इंटरनेट् संयोजनं विना अपि अस्य प्रभावी उपयोगः कर्तुं शक्यते। प्रायः ८ सहस्र ५०० रुप्यकाणां अनुमानितव्यययुक्तं एतद्यन्त्रं न्यूनव्यये सस्यरोगाणां त्वरितपरिचयम् उपचारसम्बद्धसूचनां च प्रददाति। न्यूनव्ययत्वात् सरलप्रयोगत्वाच्च अस्य उपयोगः सामुदायिकस्तरे, कृषकोत्पादकसंघटनासु तथा कृषि विस्तारगतिविधिषु अपि कर्तुं शक्यते।
९९ प्रतिशतपर्यन्तं सटीकपरिणामाः
जनसंपर्काधिकारिणी उक्तवती यत् “प्लांट डॉक्टर” विविधसस्येषु ८८ प्रतिशततः ९९ प्रतिशतपर्यन्तं सटीकपरिणामान् प्रददाति। उच्चस्तरीयसटीकतायाः कारणात् एतद्यन्त्रं कृषकाणां कृते सस्यरोगाणां त्वरितविश्वसनीयपरिचये सहायता प्रदातुं शक्नोति, येन उपचारार्थं निर्णयाः अधिकप्रभावीरीत्या ग्रहीतुं शक्यन्ते।
स्मार्टकृषेः दिशि महत्त्वपूर्णा पहलः
“प्लांट डॉक्टर” कृषिक्षेत्रे नवाचारस्य एआई प्रौद्योगिक्याः उपयोगस्य च प्रभावी उदाहरणम् अस्ति। एषा प्रौद्योगिकी कृषकाणां कृते क्षेत्रस्तरे एव रोगपरिचयम् उपचारसम्बद्धसूचनां च प्रदातुं सहायिका भविष्यति। एतादृशाः नवाचाराः कृषिं आधुनिकीकर्तुं उत्पादनवृद्धिं कर्तुं कृषकाणां आयवृद्धेः प्रयासान् च नूतनगतिं प्रदातुं शक्नुवन्ति। ग्रामीणक्षेत्रेषु एआई आधारितप्रौद्योगिकीनां विस्तारः भविष्यस्य स्मार्टकृषेः दिशानिर्धारणे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani