रीवाजनपदः - जलजीवन-अभियानस्य जनपदस्तरीयकार्यशाला अद्य भविष्यति, उपमुख्यमन्त्री शुक्लः मुख्यातिथिरूपेण उपस्थितः भविष्यति
रीवानगरम्, २९ मे-मासः (हि.स.)। मध्यप्रदेशस्य रीवानगरे अद्य शुक्रवासरे जलजीवन-अभियाननस्य अन्तर्गतं एकल-समूहनलजलयोजनानां सुचारुसञ्चालन-प्रबन्धनार्थं जनपदस्तरीयकार्यशाला-प्रशिक्षणकार्यक्रमस्य आयोजनं क्रियते। जनपदजलस्वच्छतासमित्या रीवा आयोज्यमानः अयं क
उप मुख्यमंत्री राजेंद्र शुक्ल


रीवानगरम्, २९ मे-मासः (हि.स.)। मध्यप्रदेशस्य रीवानगरे अद्य शुक्रवासरे जलजीवन-अभियाननस्य अन्तर्गतं एकल-समूहनलजलयोजनानां सुचारुसञ्चालन-प्रबन्धनार्थं जनपदस्तरीयकार्यशाला-प्रशिक्षणकार्यक्रमस्य आयोजनं क्रियते। जनपदजलस्वच्छतासमित्या रीवा आयोज्यमानः अयं कार्यक्रमः सिरमौरचतुष्पथस्थिते कृष्णराजकपूर-सभागारे भविष्यति।

जनसम्पर्काधिकारी एसपी-शुक्लः अवदत् यत् अस्याः कार्यशालायाः मुख्योद्देश्यं जनपद-रीवा तथा जनपद-रायपुरकर्चुलियानयोः एकलयोजनानां हस्तान्तरणं तथा कन्दैलासमूहयोजनायाः अन्तर्गतसम्बद्धग्रामपञ्चायतानां सरपञ्चैः सचिवैः सह च अनुबन्धप्रक्रियायाः समापनम् अस्ति, येन ग्रामीणक्षेत्रेषु पेयजलपूर्तिव्यवस्था अधिका सुदृढा भवेत्।सः अपि अवदत् यत् अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपमुख्यमन्त्री तथा चिकित्साशिक्षा-लोकस्वास्थ्य-परिवारकल्याणमन्त्री राजेन्द्रशुक्लः सहभागं करिष्यति। कार्यक्रमस्य अध्यक्षतां सांसदः जनार्दनमिश्रः करिष्यति। विशिष्टातिथिरूपेण विधायकः नागेन्द्रसिंहः, जनपदपञ्चायताध्यक्ष्या नीताकोलः तथा सम्भागायुक्तः बीएस-जामोदः उपस्थिताः भविष्यन्ति। एतेषां सहैव उपायुक्तः तथा जनपदजलस्वच्छतासमित्याः अध्यक्षः नरेन्द्रकुमारसूर्यवंशी अपि कार्यक्रमे विशेषरूपेण उपस्थितः भविष्यति।

कार्यशाला-प्रशिक्षणकार्यक्रमः द्वयोः पृथक्सत्रयोः आयोज्यते। प्रथमसत्रं प्रातः ११ वादनात् अपराह्णे १:३० वादनपर्यन्तं चलिष्यति। द्वितीयसत्रम् अपराह्णे २ वादनात् ३:३० वादनपर्यन्तं सञ्चालितं भविष्यति। जनपदजलस्वच्छतासमित्या रीवा सम्बद्धक्षेत्राणां सर्वेभ्यः सरपञ्चेभ्यः, सचिवेभ्यः, गणमान्यनागरिकेभ्यः च अस्यां महत्त्वपूर्णकार्यशालायां समये उपस्थितेः अनुरोधः कृतः।

Hindusthan Samachar / Divya Ranjan