Enter your Email Address to subscribe to our newsletters

लखनऊ, 29 मईमासः (हि.स.)। उत्तरप्रदेश-राज्य-सर्वकारः ग्रामीण-यून: केवलं तकनीकी-दृष्ट्या दक्षान् कर्तुं न इच्छति, अपि तु तान् आधुनिक-कार्पोरेट-जगतः आवश्यकतानुगुणं आत्मविश्वास-सम्पन्नान्, संवाद-कुशलान् तथा नेतृत्व-क्षमतायुक्तान् यून: रूपेण सज्जीकर्तुं महत् पदं स्वीकृतवती अस्ति। उत्तरप्रदेश-कौशल-विकास-अभियानं (यूपीएसडीएम) दीनदयाल-उपाध्याय-ग्रामीण-कौशल-योजना (डीडीयू-जीकेवाई) अन्तर्गतं सञ्चालितानां सर्वेषां आवासीय-प्रशिक्षण-केन्द्राणां कृते वर्षपर्यन्तं सह-पाठ्यक्रम-क्रियाकलापानां विस्तृत-कार्यक्रम-पञ्चाङ्गं प्रकाशितवान् अस्ति।
अस्य नवीन-व्यवस्थायाः उद्देश्यं प्रशिक्षार्थिनां मध्ये नेतृत्व-क्षमता, संवाद-कौशलम्, डिजिटल-साक्षरता, व्यक्तित्व-विकासः तथा रोजगारोन्मुख-क्षमताः विकासयितुम् अस्ति। मिशनेन सर्वेषां परियोजना-क्रियान्वयन-संस्थाभ्यः (PIA) एतानि क्रियाकलापा: अनिवार्यत्वेन सञ्चालनीयानि इति निर्देशाः दत्ताः सन्ति। स्पष्टं निर्दिष्टम् अस्ति यत् यदि कश्चन संस्थानः उपेक्षां करोति अथवा एतान् कार्यक्रमान् गम्भीरतया न पालयति, तर्हि तस्य विरुद्धं दण्डात्मक-कार्यवाही भविष्यति।
राज्य-मन्त्री (स्वतन्त्र-प्रभारः) व्यावसायिक-शिक्षा-कौशल-विकास-उद्यमशीलता-विभागस्य कपिलदेव-अग्रवालः अवदत् यत् प्रकाशित-कार्यक्रम-पञ्चाङ्गानुसारं वर्षपर्यन्तं राष्ट्रीय-अन्ताराष्ट्रिय-दिवसाः, सांस्कृतिक-आयोजनानि, क्रीडा-प्रतियोगिताः, उद्यमिता-सत्राणि, डिजिटल-साक्षरता-कार्यक्रमाः तथा करियर-आधारित-क्रियाकलापाः आयोजयिष्यन्ते।
जनवरी-मासे राष्ट्रिय-युवा-दिवसः, गणतन्त्र-दिवसः तथा करियर-परामर्श-कार्यक्रमैः आरम्भः भविष्यति, तदनन्तरं फरवरी-मासे सांस्कृतिक-उत्सवाः तथा उद्यमिता-कार्यशालाः आयोज्यन्ते। मार्च-मासे महिला-दिवसः तथा वार्षिक-सम्मान-समारोहाः भविष्यन्ति। अप्रैल-मासे पृथ्वी-दिवसः, प्रतिभा-अन्वेषणम् (टैलेंट-हंट), स्व-परिचय-प्रतियोगिता तथा अंबेडकर-जयंती-आधारित-कार्यक्रमाः आयोजिताः भविष्यन्ति।
मिशन-निदेशकस्य पुलकित-खरे इत्यस्य निर्देशनानुसारं प्रकाशित-कार्यक्रम-पञ्चाङ्गे मे-मासे योग-कार्यक्रमाः, क्रीडा-प्रतियोगिताः, पोस्टर-निर्माणम् तथा वाद-विवाद-प्रतियोगिताः प्रमुखतया भविष्यन्ति। जून-मासः “स्वास्थ्य-कल्याणम् (हेल्थ एण्ड वेलनेस)” इति विषयाय समर्पितः भविष्यति। जुलाई-मासे समूह-चर्चा, मॉक-साक्षात्कारः तथा सार्वजनिक-भाषण-प्रतियोगिताः भविष्यन्ति। अगस्त-मासे स्वतन्त्रता-दिवसः, रंगोली-प्रतियोगिता तथा रक्षाबन्धन-आधारित-सांस्कृतिक-आयोजनानि भविष्यन्ति।
सितम्बर-मासे शिक्षक-दिवसः, हिन्दी-दिवसः तथा साहित्यिक-क्रियाकलापानां प्रवर्धनं भविष्यति। अक्टूबर-मासे गांधी-जयंती, स्वच्छता-अभियानम्, श्रमदानं तथा साइबर-सुरक्षा-कार्यशालाः आयोजिताः भविष्यन्ति। नवम्बर-मासे संविधान-दिवसः, प्रश्नोत्तरी (क्विज) तथा क्रीडा-प्रतियोगिताः भविष्यन्ति। डिसेम्बर-मासे अंग्रेजी-भाषण-सप्ताहः, डिजिटल-साक्षरता तथा रिज्यूमे-लेखन-आदय: कार्यक्रमा: यून: रोजगाराय सज्जीकर्तुं आयोज्यन्ते।
अभियान-निदेशकः पुलकित-खरे उक्तवान् यत् उत्तरप्रदेश-कौशल-विकास-विभागस्य एषः प्रयासः ग्रामीण-यून: न केवलं तकनीकी-दृष्ट्या सुदृढान् करिष्यति, अपि तु तेषां अन्तर्निहितां आत्मविश्वास-शक्ति, नेतृत्व-क्षमता तथा सामाजिक-कौशलम् अपि विकसितं करिष्यति। सः अवदत् यत् अद्यतन-कार्पोरेट-जगति केवलं तकनीकी-दक्षता पर्याप्ता न भवति, अपि तु व्यक्तित्व-विकासः तथा संवाद-कौशलम् अपि अत्यावश्यकम् अस्ति, यस्मिन् दिशि उत्तरप्रदेश-सर्वकारः यून: सज्जीकर्तुं प्रयतते।
Hindusthan Samachar / अंशु गुप्ता