सार्वजनिक क्षेत्रस्य वित्तकोषाः 2025–26 तमे वर्षे 1.98 लक्षकोटिरुप्यकाणां शुद्धः लाभः अर्जितः
- डीएफएस सचिवः 2025-26 तमाय वर्षाय सार्वजनिक क्षेत्रस्य वित्तकोषाणां प्रदर्शनस्य कृतवान् समीक्षाम् नव दिल्ली, 29 मईमासः (हि.स)।सार्वजनिकक्षेत्रीयवित्तकोषाणां (पीएसबी) वित्तवर्षे २०२५–२६ मध्ये १.९८ लक्षकोटिरूप्यकाणां अभूतपूर्वं सर्वाधिकं शुद्धलाभं
सार्वजनिक क्षेत्र के बैंकों के प्रदर्शन की समीक्षा बैठक का जारी फोटो


सार्वजनिक क्षेत्र के बैंकों के प्रदर्शन की समीक्षा बैठक का जारी फोटो


- डीएफएस सचिवः 2025-26 तमाय वर्षाय सार्वजनिक क्षेत्रस्य वित्तकोषाणां प्रदर्शनस्य कृतवान् समीक्षाम्

नव दिल्ली, 29 मईमासः (हि.स)।सार्वजनिकक्षेत्रीयवित्तकोषाणां (पीएसबी) वित्तवर्षे २०२५–२६ मध्ये १.९८ लक्षकोटिरूप्यकाणां अभूतपूर्वं सर्वाधिकं शुद्धलाभं प्राप्तवन्तः, यस्मिन् तेषां कुलव्यवहारः १२.८ प्रतिशतं वर्धमानः २८३.३ लक्षकोटिरूप्यकपर्यन्तं प्राप्तः।

वित्तमन्त्रालयेन प्रकाशिते वक्तव्ये उक्तं यत् वित्तीयसेवाविभागस्य (डीएफएस) सचिवः एम्. नागराजू शुक्रवासरे नूतनदिल्ली नगरे सार्वजनिकक्षेत्रीयबैङ्कानां सुदृढप्रदर्शनस्य समीक्षार्थम् आयोजितायां गोष्ठ्यां तेषां व्यापकप्रदर्शनस्य मूल्याङ्कनं कृतवान्। मन्त्रालयस्य अनुसारं वित्तीयसेवाविभागस्य (डीएफएस) सचिवः एम्. नागराजू अद्य सार्वजनिकक्षेत्रीयवित्तकोषाणां (पीएसबी) समीक्षोपवेशनस्य अध्यक्षतां कृतवान्, येन वित्तवर्षे २०२५–२६ मध्ये प्रमुखसञ्चालनवित्तीयरणनीतिकप्राथमिकताक्षेत्रेषु तेषां प्रदर्शनस्य प्रगतिश्च मूल्याङ्किता।

वित्तमन्त्रालयस्य अनुसारं अस्याः समीक्षाबैठकायाः प्रमुखप्रदर्शनबिन्दवः एते यत् सार्वजनिकक्षेत्रीयवित्तकोषैः वित्तवर्षे २०२५–२६ मध्ये १.९८ लक्षकोटिरूप्यकाणां सर्वाधिकः शुद्धलाभः अर्जितः, यदा अस्मिन् वित्तवर्षे वित्तकोषाणामाहत्य व्यवहारः २८३ लक्षकोटिरूप्यकपर्यन्तं प्राप्तः। तदेव जीएनपीए ऐतिहासिकरूपेण न्यूनतमस्तरे १.९३ प्रतिशतपरिमाणे स्थितः।

मन्त्रालयस्य अनुसारं समीक्षासंगोष्ठ्याः समये “आपकी पूंजी, आपका अधिकार” इति नाम्ना एकस्य “कॉफी टेबल बुक” इत्यस्य विमोचनं कृतम्, यस्मिन् अनधिकृतवित्तीयसम्पत्तीनां अन्वेषणं ताः पुनः स्वामिभ्यः प्रत्यर्पणं च प्रति राष्ट्रव्यापीप्रयत्नाः प्रकाशिताः।

एतेन सह नागरिकैः सह सम्पर्कं सूचनाप्रसारणं च अधिकं प्रभावीकरणार्थं बहुभाषीयसुलभतासुविधायुक्ता डीएफएसस्य नूतना वेबसाइट् अपि प्रारब्धा।

वित्तमन्त्रालयस्य अनुसारं अस्यां गोष्ठ्यां वित्तीयसेवाविभागस्य विशेषसचिवः, डीएफएसस्य वरिष्ठाधिकारिणः, भारतीयस्टेटबैङ्कस्य अध्यक्षः, सार्वजनिकक्षेत्रीयवित्तकोषाणां प्रबन्धनिदेशकाः मुख्यकार्यकारीअधिकारिणः कार्यकारीनिदेशकाः च सहभागिनः अभवन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani