Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 मईमासः (हि.स.)।
भारतीयजिमनास्ट् प्रणतिनायकस्य राष्ट्रमण्डलक्रीडा २०२६ तथा एशियाईक्रीडा २०२६ इत्येतयोः सिद्धतार्थं युवकार्यक्रमक्रीडामन्त्रालयेन, भारतीयक्रीडाप्राधिकरणेन तथा लक्ष्यओलम्पिकपोडियमयोजनया निरन्तरं सुदृढसहयोगः प्रदीयते। सरकारेण तस्यै तथा भारतीयजिमनास्टिकदले अन्ताराष्ट्रियएक्सपोजर्, विदेशप्रशिक्षणम्, राष्ट्रियानुशिक्षणशिविरम् अन्याः आवश्यकसहायताश्च प्रदीयन्ते।
टोक्योओलम्पिक् २०२० मध्ये भारतस्य प्रतिनिधित्वं कृतवती प्रणतिनायका अधुना भुवनेश्वरस्थिते हाईपरफॉर्मेन्स् सेन्टरे २२ मईतः २० जून २०२६ पर्यन्तम् आयोजितस्य वरिष्ठकनिष्ठमहिलाआर्टिस्टिकजिमनास्टिकराष्ट्रियप्रशिक्षणशिविरस्य भागा अस्ति। एतत् शिविरं २५तः २८ जून २०२६ पर्यन्तं चीनदेशस्य जुनयी नगरे भविष्यन्त्याः १३तमवरिष्ठएशियाईचैम्पियनशिपस्य सिद्धतार्थम् आयोजितम् अस्ति। प्रणतिः अस्यां प्रतियोगितायां भारतीयवरिष्ठमहिलाआर्टिस्टिकजिमनास्टिकदले सहभागिनी भविष्यति।
भुवनेश्वरशिविरार्थम् आहत्य२३.५२ लक्षरूप्यकाणां स्वीकृतिः प्रदत्ता, यस्मिन् वरिष्ठकनिष्ठजिमनास्टाः, प्रशिक्षकाः, सहयोगिकर्मचारिणश्च सहिताः कुलम् २१ सदस्याः सम्मिलिताः सन्ति।
आगामिमासे चीनदेशे भविष्यन्त्याः महाद्वीपीयचैम्पियनशृंखलानां कृते सरकारेण भारतीयवरिष्ठकनिष्ठमहिलाआर्टिस्टिकजिमनास्टिकदलस्य सहभागितार्थं ३६.५९ लक्षरूप्यकाणां वित्तीयसहायता अनुमोदिता। अस्मिन् दले क्रीडकाः, प्रशिक्षकाः, सहयोगिकर्मचारिणश्च सहिताः कुलम् १७ सदस्याः सन्ति।
प्रणतिनायकायै लक्ष्यओलम्पिकपोडियमयोजनायाः अन्तर्गतं व्यक्तिगतस्तरे अपि महत्त्वपूर्णा सहायता प्राप्ता। उज्बेकिस्तानदेशस्य ताशकन्दनगरे १९तः २५ मई २०२६ पर्यन्तम् आयोजिते एफआईजी आर्टिस्टिकजिमनास्टिकवर्ल्डचैलेञ्जकपे सहभागितार्थं प्रणतिः, तस्याः प्रशिक्षकः अशोककुमारमिश्रः तथा फिजियोथेरेपिस्ट् डॉ. श्वेता अटिली इत्येतेषां कृते ५.८९ लक्षरूप्यकाणां सहायता स्वीकृता आसीत्। अस्यां प्रतियोगितायां प्रणतिः रजतपदकं जितवती।
ओलम्पिक् तथा एशियाईक्रीडाचक्रं दृष्ट्वा भारतीयजिमनास्टिककार्यक्रमस्य सुदृढीकरणार्थं लक्ष्यओलम्पिकपोडियमयोजनायाः अन्तर्गतं नवम्बर २०२५तः दिसम्बर २०२५ पर्यन्तं यूनाइटेडकिङ्ग्डमदेशे आयोजितस्य अन्ताराष्ट्रियप्रशिक्षणशिविरस्य तथा फरवरी एवं अप्रैल् २०२६ मध्ये आयोजितयोः द्वयोः अन्ताराष्ट्रियप्रतियोगितयोः सहभागितार्थं ७५.६५ लक्षरूप्यकाणां सहायता अपि अनुमोदिता आसीत्। अस्मिन् कार्यक्रमे प्रणतिनायकासहितः १६ सदस्यीयः भारतीयजिमनास्टिकदलः सम्मिलितः आसीत्। किन्तु आघातकारणात् प्रणतिः अस्य शिविरस्य भागा भवितुं न अशकत्।
अस्मात् पूर्वं भारतीयक्रीडाप्राधिकरणेन फरवरी २०२६ मध्ये राष्ट्रमण्डलक्रीडा तथा एशियाईक्रीडा २०२६ इत्येतयोः सिद्धतार्थं भुवनेश्वरहाईपरफॉर्मेन्स् सेन्टरे ११ फरवरीतः १५ मार्च २०२६ पर्यन्तं वरिष्ठराष्ट्रियजिमनास्टिकप्रशिक्षणशिविरस्य अनुमतिः अपि प्रदत्ता आसीत्। अस्मिन् शिविरे वरिष्ठपुरुषमहिलाजिमनास्टाः सहिताः आहत्य२७ प्रतिभागिनः सम्मिलिताः आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani