Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 29 मईमासः (हि.स.)।
भारतसरकारः गतवर्षेषु लक्ष्यओलम्पिकपोडियमयोजना (टॉप्स) तथा भारतीयक्रीडाप्राधिकरणस्य (साई) माध्यमेन देशस्य शीर्षक्रीडकान् अन्तरराष्ट्रीयस्तरीयसिद्धतां निरन्तरं प्रददाति। ओलम्पिक्, एशियाईक्रीडा तथा राष्ट्रमण्डलक्रीडा इत्यादिषु महत्सु आयोजनेषु भारतस्य पदकसम्भावनानां सुदृढीकरणार्थं प्रारब्धा एषा योजना अधुना भारतीयक्रीडाव्यवस्थायाः मेरुदण्डरूपेण स्थिता अस्ति।
वर्षे २०२६ सरकारेण विशेषरूपेण आगामि एशियाईक्रीडा (आइची-नागोया) तथा राष्ट्रमण्डलक्रीडा (ग्लासगो) इत्येतयोः दृष्ट्या अनेकभ्यः क्रीडकेभ्यः क्रीडादलेभ्यश्च विशालस्तरे वित्तीयसहायता, विदेशप्रशिक्षणम्, अन्तरराष्ट्रीयएक्सपोजर् तथा क्रीडाविज्ञानसहयोगः प्रदत्तः। एतेन सह एशियाईक्रीडानां कृते “टारगेट एशियन गेम्स ग्रुप्” इत्यस्य गठनमपि कृतम्, येन सुदृढपदकदावेदारक्रीडकानां कृते अतिरिक्तसहयोगः प्रदीयेत।
प्रणतिनायकायाः विषये विशेषकेन्द्रणम्
टोक्योओलम्पियनजिमनास्ट् प्रणतिनायका तेषु क्रीडकेषु अन्तर्भवति, येभ्यः २०२६ तमे वर्षे निरन्तरं शासकीयसहायता प्राप्ता। अधुना प्रणतिः भुवनेश्वरस्थिते हाईपरफॉर्मेन्स् सेन्टरे आयोजितस्य वरिष्ठकनिष्ठमहिलाआर्टिस्टिकजिमनास्टिक्सराष्ट्रीयप्रशिक्षणशिविरस्य भागा अस्ति। एतत् शिविरं २२ मईतः २० जूनपर्यन्तम् आयोज्यते तथा चीनदेशे भविष्यन्त्याः वरिष्ठएशियनचैम्पियनशिपस्य सिद्धतार्थं महत्त्वपूर्णं मन्यते।
अस्मिन् शिविरे कुलम् २३.५२ लक्षरूप्यकाणि व्ययीकृतानि, यस्मिन् २१ क्रीडकाः, प्रशिक्षकाः, सहयोगिकर्मचारिणश्च सम्मिलिताः सन्ति। एतदतिरिक्तं चीनदेशे भविष्यन्त्याः प्रतियोगितायाः कृते भारतीयमहिलाजिमनास्टिक्सदलाय ३६.५९ लक्षरूप्यकाणां वित्तीयसहायता अपि अनुमोदिता।
प्रणत्यै टॉप्सयोजनायाः अन्तर्गतं व्यक्तिगतसहायतापि प्रदत्ता। उज्बेकिस्तानदेशे आयोजिते एफआईजी आर्टिस्टिकजिमनास्टिक्सवर्ल्डचैलेञ्जकपे सहभागितार्थं तस्यै, तस्याः प्रशिक्षकाय अशोककुमारमिश्राय तथा फिजियोथेरेपिस्ट् डॉ. श्वेता अटिली इत्यस्यै च ५.८९ लक्षरूप्यकाणि अनुमोदितानि आसन्। प्रणतिः अस्यां प्रतियोगितायां रजतपदकं जित्वा भारताय सफलता प्रदत्तवती।
एतदतिरिक्तं ब्रिटेनदेशे आयोजितस्य अन्तरराष्ट्रीयप्रशिक्षणशिविरस्य प्रतियोगितानां च कृते टॉप्सयोजनया ७५.६५ लक्षरूप्यकाणि स्वीकृतानि आसन्। किन्तु आघातकारणात् प्रणतिः अस्मिन् कार्यक्रमे सहभागितां कर्तुं न अशकत्।
तीरन्दाजीक्रीडकाः अपि व्यापकसहयोगं प्राप्नुवन्ति
भारतीयतीरन्दाजीदलस्य सिद्धतासुदृढीकरणार्थम् अपि क्रीडामन्त्रालयेन निरन्तरं निवेशः क्रियते। एशियाईक्रीडा २०२६ तथा आगामिविश्वकपप्रतियोगितानां सिद्धतार्थं धीरजबोम्मदेवरा तथा ज्योतिसुरेखावेन्नम् इत्यादयः शीर्षतीरन्दाजाः टॉप्सयोजनायाः अन्तर्गतं विशेषसहायतां प्राप्तवन्तः।
रिकर्वतीरन्दाजः धीरजबोम्मदेवरः लॉसएञ्जेलिस् २०२८ ओलम्पिकचक्रस्य अन्तर्गतं अद्यावधि प्रायः ६६.२८ लक्षरूप्यकाणां सहायता प्राप्तवान्। तथा च कम्पाउण्डतीरन्दाजी क्रीडिका ज्योतिसुरेखावेन्नम् प्रायः २४.५६ लक्षरूप्यकाणां सहयोगं प्राप्तवती।
ज्योत्यै जर्मनीदेशस्य बीटरआर्चरीसेन्टरे विदेशप्रशिक्षणशिविरार्थमपि सहायता प्रदत्ता। सहैव तस्याः मानसिकसुदृढता प्रतियोगितासिद्धता च वर्धयितुं क्रीडामनोवैज्ञानिकस्य सेवाः अपि उपलब्धाः कृताः।
भारतीयतीरन्दाजीदलस्य कृते मार्च-अप्रैल् २०२६ मध्ये मेक्सिकोदेशे विशेषविदेशप्रशिक्षणशिविरम् आयोजितम् आसीत्, यस्मिन् ५७.४२ लक्षरूप्यकाणि व्ययीकृतानि। अस्मिन् धीरजबोम्मदेवरः, ज्योतिसुरेखा, दीपिकाकुमारी, अतनुदासः इत्यादयः शीर्षक्रीडकाः सम्मिलिताः आसन्।
एतदतिरिक्तं सोनीपतस्थिते भारतीयक्रीडाप्राधिकरणकेन्द्रे २० मईतः ७ जूनपर्यन्तं वरिष्ठराष्ट्रीयतीरन्दाजीशिविरम् आयोज्यते, यस्मिन् १६ शीर्षतीरन्दाजाः सहभागिनः सन्ति। एशियाईक्रीडाभ्यः पूर्वं भारतीयतीरन्दाजाः जापानदेशे विशेषएक्सपोजर् शिविरे अपि सहभागितां करिष्यन्ति।
टॉप्सयोजना कथं भारतीयक्रीडानां चित्रं परिवर्तयति
सितम्बर् २०१४ तमे वर्षे प्रारब्धायाः लक्ष्यओलम्पिकपोडियमयोजनायाः उद्देश्यं भारतीयक्रीडकान् विश्वस्तरीयसुविधाभिः सम्पन्नान् कर्तुम् अस्ति। योजनायाः अन्तर्गतं क्रीडकानां कृते मासिकभत्तम्, विदेशप्रशिक्षणम्, अन्तरराष्ट्रीयप्रतियोगितासु सहभागिता, निजीप्रशिक्षकाः, फिजियोथेरेपिस्ट्, क्रीडामनोवैज्ञानिकाः तथा आधुनिकोपकरणानां सुविधा प्रदीयते।
अधुना टॉप्सयोजनायाः अन्तर्गतं प्रायः ९८ कोरग्रुप् तथा १६५ डेवलपमेण्ट् ग्रुप् क्रीडकाः सहायता प्राप्नुवन्ति। एतेषु तीरन्दाजी, मुक्केबाजी, बैडमिण्टन्, लक्ष्यसाधनं,मल्लयुद्धं तथा यष्टिक्रीडा इत्यादीनां प्रमुखक्रीडाविधीनां क्रीडकाः सम्मिलिताः सन्ति।
सर्वकारस्य वर्धमाननिवेशः एतत् सूचयति यत् भारतम् अधुना केवलं सहभागितायाः सीमायां न तिष्ठति, अपितु एशियाईक्रीडा, राष्ट्रमण्डलक्रीडा तथा ओलम्पिक् इत्यादिषु आयोजनेषु अधिकाधिकपदकप्राप्तेः लक्ष्येन अग्रे गच्छति। क्रीडकेभ्यः प्रदीयमाना एषा निरन्तरसहायता भारतीयक्रीडानां भविष्याय नूतनदिशं प्रददाति।
---------------
Hindusthan Samachar / Dheeraj Maithani