Enter your Email Address to subscribe to our newsletters

देहरादूननगरम्, २९ मे-मासः (हि.स.)। मुख्यसचिवः आनन्द-बर्द्धनः शुक्रवासरे सचिवालये खाद्य-नागरिक-आपूर्ति-उपभोक्ता-विषय-विभागेन सह प्रदेशे खाद्यान्नस्य दैनिक-आवश्यक-वस्तूनां च उपलब्धतां मूल्य-स्थितिं च समीक्षितवान्। सभायां तेन आयुक्त-खाद्यः बी.एल.राणातः आवश्यक-उपभोक्ता-वस्तूनां उपलब्धतायाः बाजार-मूल्यानां च विषये सूचना गृहीता।
मुख्यसचिवेन निर्देशाः दत्ताः यत् सामान्यजनाय दैनिक-आवश्यक-वस्तूनि उचित-दरेण निर्बाधरूपेण उपलब्धानि कारयन्तु। एतदर्थं सम्बन्धित-विभागान् निरन्तरं नियमितं च निरीक्षणं कर्तुं निर्देशितम्। तेन विपणेषु खाद्य-सामग्रीणां, डीजल-पेट्रोल-इत्येतयोः, एलपीजी-इत्यस्य तथा अन्येषां आवश्यक-वस्तूनां उपलब्धतायाः मूल्य-स्थितेः च सतत-निरीक्षणं कर्तुं निर्देशाः दत्ताः, येन जनतायाः कापि समस्या न भवेत्।
तेन आवश्यक-वस्तूनां कालाबाजार-क्रिया, जमाखोरी तथा कृत्रिम-अभाव-जनक-तत्त्वानां विरुद्धं कठोर-कार्यवाहीं कर्तुम् अपि निर्देशाः दत्ताः। मुख्यसचिवः उक्तवान् यत् विपणेषु, गोदामेषु तथा स्थूल-विक्रेतृणां स्थलेषु नियमित-निरीक्षण-अभियानानि चालयन्तु तथा अनियमितता दृश्यते चेत् त्वरित-कार्यवाही सुनिश्चितीक्रियताम्।
मुख्यसचिवः उक्तवान् यत् प्रदेश-सर्वकारः बाजार-व्यवस्थां सुचारुरूपेण स्थापयितुं सामान्यजनाय च सौविध्यं प्रदातुं प्रतिबद्ध: अस्ति। तेन विशेषतया चारधाम-यात्रया सम्बद्धेषु जनपदेषु आवश्यक-वस्तूनां उपलब्धतायाः मूल्य-नियन्त्रणस्य च विषये विशेष-ध्यानं दातुं निर्देशितम्।
सभायां चीफ-मार्केटिङ्ग-ऑफिसर एम.एस.-विसेनः, रीजनल-मार्केटिङ्ग-ऑफिसर सी.एम.-घिल्डियालः तथा उपायुक्ता निधि-रावतेन सहिताः अन्ये अधिकारिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan