Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्री पूर्व प्रधानमंत्रिणो ‘भारत रत्नस्य’ चौधरी चरण सिंहस्य पुण्यतिथौ अर्पितः श्रद्धांजलिः
लखनऊ, 29 मईमासः (हि. स.)।मुख्यमन्त्री योगीआदित्यनाथः पूर्वप्रधानमन्त्रिणः ‘भारतरत्न’ चौधरीचरणसिंहस्य पुण्यतिथौ शुक्रवासरे तस्मै भावपूर्णां श्रद्धाञ्जलिम् अर्पितवान्। तेन विधानभवनस्थितायाः तस्य प्रतिमायाः समक्षं पुष्पार्चनं कृतम्। स्वीयसम्बोधने मुख्यमन्त्री उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणं चौधरीचरणसिंहं भारतमातुः महान् सुपुत्रं कृषकाणां च मसीहं कथितवान्।
मुख्यमन्त्री उक्तवान् यत् चौधरीचरणसिंहस्य जन्म २३ दिसम्बर १९०२ तमे वर्षे उत्तरप्रदेशे अभवत्। सः देशस्य स्वाधीनताआन्दोलनस्य सह सम्बद्धः आसीत्। देशे कृषि-राजस्वयोः क्षेत्रयोः अनेकसुधारकार्याणां श्रेयः तस्मै एव गच्छति। तस्य स्पष्टं मतम् आसीत् यत् देशस्य विकासस्य मार्गः ग्रामेभ्यः, क्षेत्रेभ्यः, खलिहानेभ्यः च गच्छति।
मुख्यमन्त्री उक्तवान् यत् कृषकाः विकासकार्यसूच्याः शासनस्य प्राथमिकतायाश्च भागः भवितुमर्हन्ति। शासनस्य योजनाः कृषकान् मनसि निधाय निर्मातव्याः। चौधरीचरणसिंहस्य देशहिताय कृतकार्याणि दृष्ट्वा तस्मै ‘भारतरत्न’ इति उपाध्या अपि सम्मानः प्रदत्तः।
मुख्यमन्त्री योगी उक्तवान् यत् उत्तरप्रदेशशासनं चौधरीचरणसिंहस्य स्मृतीनां जीविततां स्थापयितुं कृषकहितसम्बद्धान् अनेकान् कार्यक्रमान् सञ्चालयति। तेषु लखनऊनगरे चौधरीचरणसिंह-सीडपार्कस्य निर्माणमपि महत्त्वपूर्णम् अस्ति। देशस्य प्रमुखराजनेतारूपेण अपि तेन देशस्य समाजस्य च कृते महत्त्वपूर्णं योगदानं दत्तम्। २९ मई १९८७ तमे वर्षे तस्य देहावसानम् अभवत्।
अस्मिन् अवसरे मन्त्रिमण्डलमन्त्री स्वतन्त्रदेवसिंहः, राज्यमन्त्री केपीमलिकः, महापौरा सुषमाखर्कवालः, राज्यसभासांसदः ब्रजलालः, विधायकः नीरजबोरा, अमरेशकुमारः, विधानपरिषद्सदस्यः लालजीप्रसादनिर्मलः, रामचन्द्रप्रधानः, उमेशद्विवेदी च अन्ये उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani