हमीरपुर-दुर्घटनायां मुख्यमन्त्री योगी शोकं व्यक्तवान्, मृतकानां परिजनानां कृते पञ्च-पञ्चलक्षरूप्यकाणां आर्थिकसाहाय्यस्य घोषणा कृता
लखनऊनगरम्, २९ मे-मासः (हि.स.)। मुख्यमन्त्रिणा योगी-आदित्यनाथेन हमीरपुर-जनपदे बेतवा-नद्याः उपरि निर्माणाधीनस्य सेतोः स्लैब-पतनदुर्घटनायां श्रमिकाणां मृतौ शोकः व्यक्तः। मुख्यमन्त्रिणा मृतकानाम् आश्रितेभ्यः पञ्च-पञ्चलक्षरूप्यकाणि तथा आहतेभ्यः पञ्चाशत्
बैठक करते मुख्यमंत्री


लखनऊनगरम्, २९ मे-मासः (हि.स.)। मुख्यमन्त्रिणा योगी-आदित्यनाथेन हमीरपुर-जनपदे बेतवा-नद्याः उपरि निर्माणाधीनस्य सेतोः स्लैब-पतनदुर्घटनायां श्रमिकाणां मृतौ शोकः व्यक्तः। मुख्यमन्त्रिणा मृतकानाम् आश्रितेभ्यः पञ्च-पञ्चलक्षरूप्यकाणि तथा आहतेभ्यः पञ्चाशत्-पञ्चाशत्सहस्र-रूप्यकाणां आर्थिकसाहाय्यं प्रदातुं निर्देशाः प्रदत्ताः।

वस्तुतः गुरुवासरे रात्रौ अनेकजनपदेषु वायु-वृष्टेः समये बेतवा-नद्याः उपरि निर्माणाधीनस्य सेतोः स्लैब इति पतितः। अस्यां दुर्घटनायां षट् श्रमिकाः मृताः, अन्येषां कतिपयानां श्रमिकाणां अन्तः स्थितस्य आशङ्कया उद्धारकार्यं प्रवर्तमानम् अस्ति। मुख्यमन्त्री योगी एतां दुर्घटनां अत्यन्तं दुःखदां हृदयविदारकां च उक्त्वा मृतकानां परिजनान् प्रति प्रगाढां संवेदनां व्यक्तवान्। मुख्यमन्त्रिणा अधिकारिभ्यः मृतकानां परिजनेभ्यः सर्वकारस्य पक्षतः पञ्च-पञ्चलक्षरूप्यकाणां साहाय्यं प्रदातुं निर्देशाः दत्ताः।

एतेन सह मुख्यमन्त्री गुरुवासरे रात्रौ अनेकजनपदौषु जातेन प्रबल-वायु-वृष्टि-आकाशीयविद्युत्पातेन च जातां भीषणविनाशस्थितिम् अपि संज्ञानं नीतवान्। तेन सर्वेषां जनपदाधिकारिणः प्रति उद्धारकार्यं शीघ्रतया कर्तुं, हानिमूल्यांकनं कर्तुं, सहायताराशेः शीघ्रं वितरणं च कर्तुं निर्देशाः प्रदत्ताः।

हमीरपुर-दुर्घटनां प्रति मुख्यमन्त्री योगी तत्कालं जनपद-प्रशासनं एसडीआरएफ-संस्थया सह मिलित्वा सहायता-उद्धार-अभियानं युद्धस्तरे सञ्चालयितुं निर्देशितवान्। तेन पीडितपरिवाराणां सर्वसम्भवसाहाय्यं सुनिश्चितं कर्तुं उक्तम्। अस्मिन् कार्ये कापि शिथिलता न स्वीकरिष्यते इति अपि उक्तवान्। मुख्यमन्त्री उक्तवान् यत् सहायता-उद्धारकार्याणां नियमित-निरीक्षणं क्रियताम् तथा प्रत्येकत्रिहोरानन्तरं स्थितेः अद्यतनप्रतिवेदनं शासनाय प्रेष्यताम्। तेन सहायता-वितरणस्य, सहाय्य-शिविराणां, उद्धार-अभियानस्य, अन्यासां प्रशासनिकगतिविधीनां च सूचना सामाजिकमाध्यममञ्चेषु सहभागं कर्तुं अपि निर्देशाः दत्ताः, येन सामान्यजनानां समीपे सम्यक् समयबद्धा सूचना प्राप्नुयात्।

मुख्यमन्त्रिणा प्रदेशवासिनः प्रति आह्वानं कृतं यत् दुर्वातावरणस्य समये सर्वे सतर्काः भवेयुः, अनावश्यकयात्रां परित्यजेयुः तथा प्रशासनदत्तनिर्देशानां पालनं कुर्युः।

उल्लेखनीयम् अस्ति यत् गुरुवासरे रात्रौ जातेन प्रबल-वायु-वृष्टि-आकाशीय-विद्युत्पातेन प्रदेशस्य अनेकजनपदेषु भीषणहानिः अभवत् तथा जनजीवनम् अपि प्रभावितम् अभवत्।

Hindusthan Samachar / Divya Ranjan