मुख्यमंत्री योगी मऊजनपदाय 392 कोटिरूप्यकाणां 114 परियोजनानामुपहारं, सपादले आक्षिप्तम्- ‘माफियाजनानां समक्षं विहितमात्मसमर्णम्’
-मुख्यमंत्री याेगी मां शीतला देवी धाम्नि, मऊजनपदे 392 कोटि रुप्यकैः अधिकव्ययस्य 124 विकास परियोजनानां लोकार्पणं शिलान्यासश्च मऊ, 29 मईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः शुक्रवासरे मऊजनपदस्य मधुबनस्थितात् गांधीमैदानात् समाजव
मंच का फोटो


कार्यक्रम को संबोधित करते  मुख्यमंत्री योगी


-मुख्यमंत्री याेगी मां शीतला देवी धाम्नि, मऊजनपदे 392 कोटि रुप्यकैः अधिकव्ययस्य 124 विकास परियोजनानां लोकार्पणं शिलान्यासश्च

मऊ, 29 मईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगीआदित्यनाथः शुक्रवासरे मऊजनपदस्य मधुबनस्थितात् गांधीमैदानात् समाजवादीपार्टीं प्रति तीव्रं प्रहारं कुर्वन् उक्तवान् यत् वर्षे २००५ तमे मऊ-दङ्गानां समये तत्कालीनशासनेन माफियानां समक्षं घुटनं नतं कृतम् आसीत्। तेन उक्तं यत् तस्मिन् समये रामलीलादिषु धार्मिककार्यक्रमेष्वपि विघ्नाः निर्मीयन्ते स्म तथा सामान्यजनाः भयपूर्णे वातावरणे जीवितुं विवशाः आसन्।

मुख्यमन्त्री सपा-शासनकाले विधिव्यवस्थायाः उल्लेखं कुर्वन् उक्तवान् यत् पूर्वं भगिन्यः, कन्याश्च व्यापारीजनाश्च सायंकालात् पूर्वमेव गृहं प्रत्यागन्तुं विवशाः भवन्ति स्म। यदि कश्चित् विलम्बः भवति स्म तर्हि परिवारजनाः चिन्तायां निमग्नाः भवन्ति स्म। मार्गेषु दुष्टयुवकानाम् आतंकः आसीत्, किन्तु अद्य प्रदेशे विधिशासनं स्थापितम् अस्ति तथा अपराधिषु कठोरकार्यवाही क्रियते।

मुख्यमन्त्री योगी उक्तवान् यत् तस्य शासनं धार्मिककार्यक्रमेषु विघ्नं सृजन्तः जनान् पाठं शिक्षयितुं कार्यं कृतवती। तेन दावा कृतः यत् अद्य प्रदेशे कन्यानां व्यापारीणां च सुरक्षायां कश्चन भेदं कर्तुं न शक्नोति। तेन उक्तं यत् विकासस्य, विश्वासस्य सुशासनस्य च नीतिम् अनुसृत्य प्रदेशशासनं निरन्तरं अग्रे गच्छति।

अस्मिन् अवसरे मुख्यमन्त्री योगीआदित्यनाथेन मातुः शीतलादेवीधाम्नि, मऊ-क्षेत्रे ३९२ कोटिरूप्यकाधिकमूल्यस्य १२४ विकासपरियोजनानां लोकार्पणं शिलान्यासश्च कृतः। कार्यक्रमे ऊर्जामन्त्री ए०के०शर्मा, कारागारमन्त्री दारासिंहचौहान, पञ्चायतीराजमन्त्री, सुभासपा-प्रमुखः ओमप्रकाशराजभरः, विधायकः रामविलासचौहानः, एमएलसी विजयलालराजभरः सहिताः अनेके वरिष्ठनेतारः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani