नूतनभारतस्य निर्माणाय समर्पितस्य केंद्रस्य मोदी सरकारस्य 12 वर्षाणि - मुख्यमंत्री योगी
-केंद्रय एनडीए सर्वकारस्य 12 वर्षेषु पूर्णेषु उत्तरप्रदेशे 05तः 21 जून यावत् चलिष्यति व्यापकं जनसंपर्काभियानम् -मुख्यमंत्री मंत्रिमंडलेन एवं वरिष्ठैः अधिकारिभिः सह उपविश्य अभियानस्य सज्जाः समीक्षितवान् लखनऊ, 29 मईमासः (हि.स.)। प्रधानमन्त्रिणः
मुख्यमंत्री योगी


-केंद्रय एनडीए सर्वकारस्य 12 वर्षेषु पूर्णेषु उत्तरप्रदेशे 05तः 21 जून यावत् चलिष्यति व्यापकं जनसंपर्काभियानम्

-मुख्यमंत्री मंत्रिमंडलेन एवं वरिष्ठैः अधिकारिभिः सह उपविश्य अभियानस्य सज्जाः समीक्षितवान्

लखनऊ, 29 मईमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्रस्य एनडीए-सरकारस्य द्वादशवर्षपूर्णतायाः अवसरः उपलक्ष्य उत्तरप्रदेशे ०५ जूनतः २१ जूनपर्यन्तं विकाससेवासुशासनजनकल्याणसमर्पितः व्यापकजनसंपर्काभियानः संचालितः भविष्यति।

मुख्यमन्त्री योगीआदित्यनाथः शुक्रवासरे स्वस्य शासकीयावासे मन्त्रिपरिषदः वरिष्ठाधिकारिणां च सह बैठकां कृत्वा अभियानस्य सिद्धतासमीक्षां कृतवान्। तेन निर्देशाः प्रदत्ताः यत् केन्द्रराज्यसर्वकारयोः उपलब्धयः योजनाः विकासस्य परिवर्तनकारी यात्रा च जनजनं प्रति प्रापणीयाः स्युः तथा च एतदभियानं व्यापकजनभागितारूपेण परिवर्तनीयम्।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः मोदिनः नेतृत्वे गतद्वादशवर्षेषु भारतदेशः विकाससुशासनगरीबकल्याणसामाजिकन्यायवैश्विकप्रतिष्ठादिक्षेत्रेषु नूतनशिखराणि प्राप्तवान्। केन्द्रराज्यसर्वकारयोः समन्वितप्रयत्नैः समाजस्य प्रत्येकवर्गस्य जीवने सकारात्मकपरिवर्तनं साधितम्। अभियानस्य माध्यमेन एताः उपलब्धयः जनकल्याणकारीयोजनाः विकसितभारतस्य संकल्पश्च प्रभावकरूपेण जनतां प्रति प्रेषणीयाः।

तेन निर्देशाः प्रदत्ताः यत् केन्द्रराज्यसरकाराभ्यां विविधक्षेत्रेषु कृतकार्यैः जातानि व्यापकपरिवर्तनानि उपलब्धयः श्रेष्ठकार्यप्रणाल्यश्च जनजनं प्रति प्रापणीयाः। विविधयोजनानां लाभार्थिनां सफलताकथाः तेषां जीवने आगतानि सकारात्मकपरिवर्तनानि च विशेषरूपेण प्रस्तोतव्यानि।

मुख्यमन्त्री उक्तवान् यत् सर्वे मन्त्रिणः स्वस्वप्रभारक्षेत्रेषु पर्याप्तकालं यापयेयुः तथा च अभियानस्य प्रत्येककार्यक्रमे सक्रियसहभागिता सुनिश्चितां कुर्युः। समाजस्य विविधवर्गैः प्रबुद्धजनैः युवभिः महिलाभिः कृषकैः उद्यमिभिः व्यापारिकसंघटनैश्च सह व्यापकसंवादः स्थापनीयः।

उपवेशने एतदपि निर्णीतं यत् ०५ जूनतः २१ जूनपर्यन्तं प्रत्येकविधानसभाक्षेत्रे प्रायः दश किलोमीटरपरिमितिः “प्रगतिपथयात्रा” आयोजिता भविष्यति। यात्रायाः समये जनप्रतिनिधयः ग्रामेषु रात्रिविश्रामं करिष्यन्ति, चौपालकार्यक्रमान् आयोजयिष्यन्ति तथा ग्रामप्रधानैः स्थानीयनागरिकैश्च सह संवादं स्थापयिष्यन्ति। ग्राम्यविकासविभागः अस्य कार्यक्रमस्य समन्वयं करिष्यति तथा सांसदाः विधायकाश्च सक्रियतया सहभागितां करिष्यन्ति।

मुख्यमन्त्री सर्वान् जनप्रतिनिधीन् पदाधिकारिणश्च प्रबुद्धजनैः शिक्षाविद्भिः चिकित्सकैः उद्यमिभिः व्यापारिकसंघटनैः समाजस्य विविधवर्गैश्च सह व्यक्तिगतसंवादस्थापनस्य निर्देशान् दत्तवान्।

मुख्यमन्त्री उक्तवान् यत् ०५ जूनदिनाङ्के विश्वपर्यावरणदिवसस्य अवसरः उपलक्ष्य “एकः वृक्षः मातुः नाम्ना” अभियानस्य अन्तर्गतं प्रदेशव्यापी वृहद्वृक्षारोपणकार्यक्रमाः आयोजनीयाः। प्रत्येकविकासखण्डे नगरीयनिकाये च पर्यावरणसंरक्षणजलसंवर्धनस्वच्छतास्वास्थ्यजागरूकतासम्बद्धाः गोष्ठ्यः आयोजनीयाः। प्रदेशं सिंगलयूजप्लास्टिकमुक्तं कर्तुं विशेषजनजागरूकताभियानं संचालनीयम्।

उपवेशने उक्तं यत् ०८ जूनतः १४ जूनपर्यन्तं जनसंपर्काभियानसंवादकार्यक्रमाः पदयात्राश्च आयोजिष्यन्ते। ११ तथा १२ जूनदिनयोः मीडियासंवादकार्यक्रमाः भविष्यन्ति, तदनन्तरं मन्त्रिणः जनपदस्तरे मीडियाप्रतिनिधिभिः सह संवादं करिष्यन्ति। १३ तथा १४ जूनदिनयोः सांसदाः विधायकाश्च स्वस्वक्षेत्रेषु मीडियासंवादस्य माध्यमेन डबलइंजनसरकारस्य उपलब्धीनां विकासकार्याणां च विवरणं दास्यन्ति।

मुख्यमन्त्री निर्देशान् दत्तवान् यत् १४तः १६ जूनपर्यन्तं प्रदेशस्य सर्वेषु विकासखण्डेषु नगरीयनिकायेषु च जनकल्याणमेलाः आयोजनीयाः। एतेषु मेलेषु केन्द्रराज्यसरकारयोः उपलब्धीनां आधारेण प्रदर्शन्यः स्थापनीयाः। पात्राः किन्तु वञ्चितलाभार्थिनः विविधयोजनाभिः संयोजयितुं विशेषाभियानं संचालनीयम्। सहैव आरोग्यमेलाः पशुस्वास्थ्यमेलाः अन्यजनहितकार्यक्रमाश्च आयोजनीयाः। तेन उक्तं यत् १६ तथा १७ जूनदिनयोः जिलास्तरे विकसितभारतसंकल्पसम्मेलनानि आयोजनीयानि। एतेषु विविधयोजनानां लाभार्थिनः स्वानुभवान् सहकरिष्यन्ति तथा प्रबुद्धवर्गस्य युवानां महिलानां सामाजिकसंघटनानां च अधिकतमसहभागिता सुनिश्चितीकरणीया।

मुख्यमन्त्री निर्देशान् दत्तवान् यत् युवानां विद्यार्थिनां च सहभागिता वर्धयितुं विविधस्थानेषु तत्क्षणचित्रकलाप्रतियोगिताः आयोजनीयाः। प्राकृतिककृषेः प्रोत्साहनार्थं विशेषगोष्ठ्यः आयोज्य कृषकाः कृषिविशेषज्ञाः कृषकोत्पादकसंघटनानि च अभियाने संयोजनीयानि। स्वयं सहायता समूहस्य महिलाभिः सह संवादः स्थापनीयः तथा ताः सरकारस्य योजनाभिः विकासयात्रया च सह संयोजनीयाः। १८ तथा १९ जूनदिनयोः केन्द्रसर्वकारस्य द्वादशवर्षीयविकासयात्रां विकसितभारतस्य संकल्पं च प्रदर्शयितुं विशेषप्रदर्शन्यः आयोजनीयाः।

मुख्यमन्त्री उक्तवान् यत् २१ जूनदिनाङ्के अन्ताराष्ट्रिययोगदिवसस्य अवसरः उपलक्ष्य प्रदेशस्य सर्वेषु ८२५ विकासखण्डेषु ७०० अधिकेषु नगरीयनिकायेषु च योगकार्यक्रमाः आयोजिष्यन्ते। मुख्यमन्त्री उक्तवान् यत् एतदभियानं केवलम् उपलब्धीनां प्रचारप्रसारपर्यन्तं सीमितं न भवेत्, अपितु जनतया सह प्रत्यक्षसंवादस्थापनस्य, लाभार्थिनः प्रति गमनस्य, तेषामपेक्षाणां अवगमनस्य तथा विकसितभारतविकसितउत्तरप्रदेशयोः संकल्पं सशक्तजनआन्दोलनरूपेण परिवर्तयितुं प्रभावीमाध्यमं भवेत्।

Hindusthan Samachar / Dheeraj Maithani