Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 29 मईमासः (हि.स.)।
धर्मनगरी हरिद्वारे शुक्रवासरे पूर्वभारतीयक्रिकेटक्रीडकः चर्चितराजनेता च नवजोत्सिंहसिद्धू आगत्य विभिन्नमन्दिरेषु दर्शनपूजनं कृतवान्। अस्मिन् समये तेन कनखलस्थिते पौराणिके श्रीदक्षेश्वरमहादेवमन्दिरे भगवान्शिवस्य रुद्राभिषेकं कृत्वा आशीर्वादः प्राप्तः।
भगवतः दक्षस्य नगरीरूपेण प्रसिद्धे कनखलस्थिते श्रीदक्षेश्वरमहादेवमन्दिरे नवजोत्सिंहसिद्धू विशेषपूजां कृतवान् तथा रुद्राभिषेकं कृत्वा देशस्य सुखसमृद्धये विश्वशान्तये च प्रार्थनाम् अकरोत्। मन्दिरस्य श्रीमहन्तः रविन्द्रपुरीमहाराजः तस्मै प्रसादं भगवान्दक्षेश्वरस्य चित्रं च प्रदाय सम्मानितवान्।
हरिद्वारप्रवासस्य समये सिद्धू अखाड़ापरिषदः अध्यक्षेन तथा श्रीपञ्चायतीअखाड़ामहानिर्वाणीसंस्थायाः सचिवेन श्रीमहन्तेन रविन्द्रपुरीमहाराजेन सह अपि मिलितवान्। उभयोः मध्ये धर्मः, अध्यात्मम्, सनातनसंस्कृतिः तथा भारतीयपरम्पराः इत्यादिषु विषयेषु दीर्घकालं चर्चा अभवत्। अस्मिन् अवसरस्य समये श्रीमहन्तः रविन्द्रपुरीमहाराजः तस्मै आशीर्वादं दत्त्वा उक्तवान् यत् भारतस्य आध्यात्मिकसंस्कृतिः सम्पूर्णं विश्वं शान्तेः मानवतायाश्च संदेशं ददाति।
अस्मात् पूर्वं नवजोत्सिंहसिद्धू हरिद्वारस्य अधिष्ठात्रीं मां मायादेवीमन्दिरे अपि दर्शनं कृत्वा पूजार्चनां कृतवान्। अस्य अतिरिक्तं तेन आनन्दभैरवमन्दिरे अपि प्रणामं कृत्वा आशीर्वादः प्राप्तः। धार्मिकस्थलेषु दर्शनस्य समये सिद्धू पूर्णतया आध्यात्मिकभावेन दृष्टः।
Hindusthan Samachar / Dheeraj Maithani