Enter your Email Address to subscribe to our newsletters

हल्द्वानी , 29 मईमासः (हि.स.)।
उत्तराखण्डमुक्तविश्वविद्यालयस्य विद्यापरिषदः पञ्चत्रिंशत्तमा सभा विश्वविद्यालयस्य कुलपतिना तथा विद्यापरिषदः अध्यक्षा प्रो. नवीनचन्द्रलोहनिनोऽध्यक्षतायां सम्पन्ना। सभायां विश्वविद्यालयस्य शैक्षणिकशोधप्रशासनिककार्यैः सम्बद्धानां अनेकानां महत्त्वपूर्णप्रस्तावानां विषये विस्तृतविमर्शः कृतः तथा परिषदेन विभिन्नप्रस्तावानां संस्तुतिः प्रदत्ता।
सभायां विद्यापरिषदः चतुस्त्रिंशत्तमसभायाः कार्यवृत्तस्य पुष्टिः अनुमोदनं च कृतम् तथा पूर्वसभायां स्वीकृतनिर्णयानां कार्यवाह्याः समीक्षा अपि कृता। परिषदेन शैक्षणिकसत्रं जुलाई २०२६ आरभ्य सर्वेषां सेमेस्टराधारितकार्यक्रमाणां वार्षिकशुल्कं सेमेस्टरवारं ग्राह्यम् इति तथा एमबीए एवं एमसीए कार्यक्रमेषु अध्ययनरतविद्यार्थिभ्यः अध्ययनसामग्रीप्राप्तेः विकल्पः प्रदेयः इति प्रस्तावयोः संस्तुतिः प्रदत्ता। अनेन निर्णयेन विद्यार्थिभ्यः सम्पूर्णवर्षस्य शुल्कं एकमुष्ट्या दातुं न आवश्यकं भविष्यति तथा तेषां आर्थिकभारः न्यूनः भविष्यति।
राष्ट्रीयशिक्षानीतेः अनुरूपं विद्यार्थिभ्यः प्रदीयमानानां ट्रांसक्रिप्टपत्राणां नवीनप्रारूपम् अपि परिषदेन अनुमोदनार्थं संस्तुतम्। सभायां विश्वविद्यालयस्य पञ्च नवीन एमओओसी पाठ्यक्रमाणां स्वयं पोर्टले स्वीकृतिः प्राप्ता इति सूचना परिषदः समक्षं प्रस्तुतिता, यस्मिन् विषये सदस्यैः प्रसन्नता व्यक्तिता।
परिषदेन विश्वविद्यालयस्य शैक्षणिकसत्रस्य २०२६-२७ अकादमिकपञ्चाङ्गस्य अपि संस्तुतिः प्रदत्ता। अस्य अतिरिक्तं वाणिज्यविभागस्य शोधार्थी किरणकुमारः तथा इतिहासविभागस्य शोधार्थी प्रवीनलखेड़ा इत्येतयोः पीएचडी मौखिकीपरीक्षायाः आख्या अनुमोदिता।
विद्यार्थिभ्यः अध्ययनसामग्रीप्रदानार्थं आवेदनप्राप्तेः तिथिनिर्धारणं तथा पीएचडी मौखिकीपरीक्षायाः आख्यायां आन्तरिकपरीक्षकस्य सम्बद्धनिदेशकस्य च हस्ताक्षरग्रहणसम्बद्धप्रस्तावेषु अपि परिषदेन विचारः कृत्वा स्वसंस्तुतयः प्रदत्ताः।
सभायाः महत्त्वपूर्णः विषयः विश्वविद्यालयस्य परिनियमावलौ संशोधनं कृत्वा ‘भाषाविद्याशाखायाः समावेशसम्बद्धः प्रस्तावः आसीत्। अस्मिन् विषये विस्तृतचर्चायाः अनन्तरं परिषदेन भाषाविद्याशाखया सह अन्यविद्याशाखानां पुनर्गठनार्थं पञ्चसदस्यीयसमितेः गठनस्य निर्णयः कृतः। समिति स्वीयाम् आख्या आगामीविद्यापरिषदः सभायां प्रस्तुतं करिष्यति, यस्य आधारेण अन्तिमनिर्णयः भविष्यति।
अस्य अतिरिक्तं विश्वविद्यालयस्य विभिन्नविद्याशाखानाम् अन्तर्गतं सम्पन्नानां अध्ययनमण्डलानां (बोर्ड् ऑफ् स्टडीज्) संस्तुतयः अपि परिषदेन अनुमोदिताः। अध्यक्षस्य अनुमत्या प्रस्तुतेषु अतिरिक्तप्रस्तावेषु जुलाई २०२६ सत्रात् एमबीए चतुर्थसेमेस्टरमध्ये ‘माइक्रोफाइनेंस’ इति नामकः नवीनः ऐच्छिकपाठ्यक्रमः प्रारभ्यते इति तथा विश्वविद्यालयशोधोपाध्यध्यादेशः २०२६ अन्तर्गतं पीएचडी कार्यक्रमस्य रिक्तस्थानानि प्रवेशपरीक्षामाध्यमेन पूरयितुं सम्बन्धिनः प्रस्तावाः अपि परिषदेन विचार्य स्वसंस्तुतयः प्रदत्ताः।
सभा आभाषिकप्रात्यक्षिकेति उभयमाध्यमाभ्यां आयोजिता। बाह्यसदस्यरूपेण प्रो. एनसी. पोखरियालः, पूर्वकार्यकारिणीनिदेशकः मुक्तशिक्षाविद्याशाखा दिल्लीविश्वविद्यालयः; प्रो. पीएस. बिष्टः, विभागाध्यक्षः भौतिकविज्ञानविभागः तथा परिसरनिदेशकः सोबनसिंहजीनाविश्वविद्यालयः अल्मोड़ा; डॉ. एच.सी. पुरोहितः, प्रोफेसरः तथा डीन् प्रबन्धअध्ययनविद्याशाखा दूनविश्वविद्यालयः देहरादून; तथा डॉ. मनुप्रतापसिंहः, प्रोफेसरः विभागाध्यक्षश्च कम्प्यूटरसाइंसविभागः डॉ. भीमरावअम्बेडकरविश्वविद्यालयः आगरा इत्येते चलचित्रवार्तामाध्यमेन सहभागित्वं कृतवन्तः। सभायां विश्वविद्यालयस्य आन्तरिकसदस्यरूपेण कुलसचिवः खेमराजभट्टः, वित्ताधिकारी सूर्यप्रतापसिंहः, विभिन्नविद्याशाखानां निदेशकाः, प्रोफेसराः तथा परिषदः अन्ये सदस्याः उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani