Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 29 मईमासः (हि.स.)। देशस्य पूर्वप्रधानमन्त्री, प्रखरकृषकनेता, स्वतन्त्रतासेनानी समाजसुधारकश्च चौधरीचरणसिंहस्य पुण्यतिथौ शुक्रवासरे देशव्यापिनः जनाः तस्मै श्रद्धाञ्जलिम् अर्पितवन्तः। उपराष्ट्रपतिः, लोकसभाध्यक्षः, केन्द्रीयमन्त्रिणः, विभिन्नराज्यानां मुख्यमन्त्रिणः तथा अनेकानां राजनैतिकदलानां नेतारः तं स्मृत्वा कृषकहितेषु, ग्रामीणविकासे तथा सामाजिकन्यायक्षेत्रे तस्य योगदानम् अविस्मरणीयम् इति उक्तवन्तः।
उपराष्ट्रपतिः सीपीराधाकृष्णन् सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र श्रद्धाञ्जलिसन्देशं प्रकाशितवान्। तेन उक्तं यत् चौधरीचरणसिंहः केवलं राजनेता नासीत्, अपितु ग्रामीणभारतस्य आत्मानं ज्ञातुं समर्थः दूरदर्शी नेता आसीत्। तेन स्वसम्पूर्णजीवनं कृषकाणां, श्रमिकाणां तथा कृषिप्रधानसमाजस्य उत्थानाय समर्पितम्। उपराष्ट्रपतिः उक्तवान् यत् सामाजिकन्यायस्य, ग्रामीणविकासस्य तथा कृषकसमुदायस्य सशक्तीकरणस्य दिशि तस्य प्रयत्नाः सदैव प्रेरणास्रोतोरूपेण स्थास्यन्ति।
लोकसभाध्यक्षः ओमबिडला स्वसन्देशे उक्तवान् यत् चौधरीचरणसिंहस्य जीवनं देशस्य ग्रामाणां कृषकाणां च कल्याणार्थं संघर्षस्य प्रतीकम् आसीत्। तेन उक्तं यत् कृषकाधिकाराणां संरक्षणे, ग्रामीण-अर्थव्यवस्थायाः सुदृढीकरणे तथा समाजस्य वञ्चितवर्गाणां सम्मानप्रदाने तस्य भूमिका ऐतिहासिकी आसीत्। देशः सदैव तस्य योगदानस्य प्रति कृतज्ञः भविष्यति।
केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः चौधरीचरणसिंहं नत्वा उक्तवान् यत् तेन स्वतन्त्रताआन्दोलनात् आरभ्य आपत्कालपर्यन्तं लोकतान्त्रिकमूल्यानां संरक्षणे महत्त्वपूर्णा भूमिका निर्वहिता। अमितशाहः उक्तवान् यत् चौधरीचरणसिंहेन कृषिप्रधान-अर्थव्यवस्थायाः समृद्धकृषकस्य च अवधारणा सुदृढीकृता, या अद्यापि देशस्य विकासाय प्रासङ्गिकी अस्ति। तेन उक्तं यत् तस्य सादगी, ईमानदारी तथा कृषकहितेषु समर्पणभावः आगामिपीढीनां कृते प्रेरणास्रोतः भविष्यति।
रक्षामन्त्री राजनाथसिंहः चौधरीचरणसिंहं भारतीयराजनीतेः जननायकम् उक्तवान् तथा कृषकसम्मानस्य अधिकाराणां च कृते तस्य संघर्षः सदैव स्मरणीयः भविष्यतीति अवदत्। तेन उक्तं यत् जमींदारी-उन्मूलनम्, भूमिसुधारादयः ऐतिहासिकनिर्णयाः भारतीयग्रामीणसमाजाय नूतनां दिशां दत्तवन्तः। राजनाथसिंहः एतदपि उक्तवान् यत् चौधरीचरणसिंहः गम्भीरचिन्तकः लेखकश्च आसीत्, यः स्वलेखन-विचारयोः माध्यमेन कृषि-ग्रामीणभारतयोः समस्याः राष्ट्रीयविमर्शस्य भागं कृतवान्।
केन्द्रीयकृषिमन्त्री कृषककल्याणमन्त्री च शिवराजसिंहचौहानः श्रद्धाञ्जलिम् अर्पयन् उक्तवान् यत् चौधरीचरणसिंहस्य मनसि ग्रामस्य, दरिद्रजनस्य कृषकस्य च विकासाय गाढा संवेदना आसीत्। तस्य मतम् आसीत् यत् भारतस्य वास्तविकसमृद्धिः ग्रामेभ्यः क्षेत्रेभ्यः खलिहानेभ्यश्च गच्छति। शिवराजसिंहचौहानः उक्तवान् यत् अद्य विकसितस्य आत्मनिर्भरस्य च भारतस्य निर्माणे अपि चौधरीचरणसिंहस्य विचाराः अत्यन्तं प्रासङ्गिकाः सन्ति। तस्य जीवनं कृषकहिताय ग्रामीणविकासाय च निरन्तरं प्रेरणां दास्यति।
केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः उक्तवान् यत् चौधरीचरणसिंहस्य जीवनं कृषकसम्मानस्य स्वाभिमानस्य च कृते समर्पितम् आसीत्। तेन उक्तं यत् तस्य संघर्षः अद्यापि देशं ‘अन्नदाता’-सम्मानस्य समृद्धभारतस्य सङ्कल्पस्य च सिद्धये प्रेरयति।
भाजपायाः राष्ट्रियाध्यक्षः नितिनः अपि चौधरीचरणसिंहाय श्रद्धाञ्जलिम् अर्पयन् उक्तवान् यत् भारतीयकृषौ, ग्रामीणविकासे कृषककल्याणे च तस्य योगदानं सदैव स्मरणीयं भविष्यति। तेन उक्तं यत् चौधरीचरणसिंहेन कृषकसमस्याः राष्ट्रियराजनीतेः केन्द्रे स्थापिताः।
दिल्लीराज्यस्य मुख्यमन्त्री रेखागुप्ता उक्तवती यत् चौधरीचरणसिंहेन गृहीताः ऐतिहासिकनिर्णयाः जनकल्याणकारीनीतयश्च अद्यापि नीतिनिर्मातॄन् मार्गदर्शनं कुर्वन्ति। सा उक्तवती यत् राष्ट्रनिर्माणे ग्रामीणभारतस्य विकासे च तस्य योगदानं सदैव अविस्मरणीयं भविष्यति।
आमआदमीपार्टी-संयोजकः अरविन्दकेजरीवालः अपि पूर्वप्रधानमन्त्रिणे श्रद्धाञ्जलिम् अर्पयन् उक्तवान् यत् चौधरीचरणसिंहः कृषकाधिकाराणां वास्तविकः रक्षकः आसीत्। ग्रामीणभारतस्य विकासाय कृषकसशक्तीकरणाय च तेन यानि कार्याणि कृतानि, तानि सदैव स्मरणीयानि भविष्यन्ति।
उल्लेखनीयम् अस्ति यत् चौधरीचरणसिंहः (१९०२–१९८७) देशस्य पञ्चमः प्रधानमन्त्री तथा देशस्य सर्वाधिकप्रतिष्ठितकृषकनेतृषु अन्यतमः आसीत्। भारतीयराजनीतौ तं “कृषकाणां मसीहा” इति कथ्यते। तेन स्वसम्पूर्णजीवनं ग्रामीण-अर्थव्यवस्थायै, भूमिसुधाराय कृषकाधिकारसुदृढीकरणाय च समर्पितम्। तस्य जन्मदिवसः (२३ दिसम्बर) ‘राष्ट्रियकृषकदिवस’ इति रूपेण आचर्यते।
चौधरीचरणसिंहस्य राजनैतिकं सामाजिकं च जीवनम् अद्यापि देशस्य कृषकाणां ग्रामीणसमाजस्य च कृते प्रेरणास्रोतः मन्यते। तस्य नीतयः विचाराश्च भारतीयकृषिव्यवस्थायाः ग्रामीणविकासस्य च दिशि अद्यापि मार्गदर्शकरूपेण स्थिताः सन्ति।---------------
Hindusthan Samachar / Dheeraj Maithani