Enter your Email Address to subscribe to our newsletters

जलपाईगुड़ी, 29 मईमासः (हि.स.)। उत्तरबङ्गस्य प्रायः ५०० वर्षप्राचीनायाः लोकसंस्कृतेः प्रमुखवाहकः सरिन्दावादनस्य महान् कलाकारः मङ्गलाकान्तरायः गुरुवासरस्य रात्रौ निधनं गतः। सः १०४ वर्षवयस्कः आसीत्। तेन मयनागुड़ी-क्षेत्रस्य आमगुड़ीग्रामपञ्चायत-अन्तर्गत-धवलागुड़ीस्थिते स्वगृहे अन्तिमश्वासः त्यक्तः।परिवारस्य अनुसारं मङ्गलाकान्तरायः दीर्घकालात् वृद्धावस्थासम्बद्धाभिः विविधाभिः व्याधिभिः तथा कण्ठसमस्यया पीडितः आसीत्। तस्य निधनात् उत्तरबङ्गस्य लोकसंस्कृतिक्षेत्रे शोकलहरी प्रसृता। लोककलाकाराः संस्कृतिप्रेमिणश्च एतत् अपूरणीयहानिरिति वर्णितवन्तः।
मङ्गलाकान्तरायः स्वस्य सम्पूर्णं जीवनं सरिन्दावादनरूपायाः विलुप्तप्रायायाः लोककलायाः संरक्षणाय तथा तां नूतनपीढ्यां प्रति प्रेषयितुं समर्पितवान्। तस्य अथकप्रयत्नानां कारणेन एतत् पारम्परिकवाद्ययन्त्रम् पुनः सांस्कृतिकमञ्चेषु लोककार्यक्रमेषु च स्वकीयां पहचानं प्राप्तवान्।
तस्य योगदानं दृष्ट्वा पश्चिमबङ्गशासनेन वर्षे २०१७ तमे तस्मै ‘बङ्गरत्न’ सम्मानः प्रदत्तः। ततः अनन्तरं वर्षे २०२३ तमे भारतशासनेन तस्मै देशस्य प्रतिष्ठितनागरिकसम्मानः ‘पद्मश्री’ इति प्रदत्तः।
परिवारस्य अनुसारं प्रायः एकमासपूर्वं तस्य स्वास्थ्यं बिगडितम् अभवत्, तदा तम् जलपाईगुड़ी-सुपरस्पेशलिटी-चिकित्सालयनियुक्तिं कृतवन्तः। किन्तु चिकित्सालये निवासस्य इच्छा नास्तीत्यतः पुनः तम् गृहं प्रति आनयितवन्तः। गतकेषु दिवसेषु तस्य स्थितिः अधिकगम्भीरा अभवत्।
शुक्रवासरस्य प्रातःकाले तस्य निधनस्य समाचारः प्रसृतः चेत् धवलागुड़ीग्रामे शोकलहरी प्रसृता। बहुसंख्यकाः जनाः तस्य गृहं गत्वा अन्तिमश्रद्धाञ्जलिम् अर्पयन्ति। परिवारः उक्तवान् यत् तस्य अन्तिमेच्छानुसारं तस्य अन्त्येष्टिः गृहस्य समीपे स्थितायां निजीभूमौ एव क्रियते।
मङ्गलाकान्तरायस्य निधनात् उत्तरबङ्गस्य लोकपरम्परा स्वकीयम् एकम् अमूल्यं नक्षत्रं नष्टवती, यस्य पूर्तिः कर्तुं सुकरं न भविष्यति। --------------------
Hindusthan Samachar / Dheeraj Maithani