कुंभ मेलायाः-2027 सज्जासु तीव्रता, अपर मेलाधिकारी अकरोत् निरीक्षणम्
हरिद्वारम्, 29 मईमासः (हि.स.)। विश्वप्रसिद्धकुम्भमेलापकस्य २०२७ सज्जतासम्बन्धे मेलाप्रशासनेन अवस्थापनानिर्माणकार्येषु तीव्रता आनिता। मार्गाणां, सेतूनां, स्वच्छताव्यवस्थायाः तथा यातायातसुविधानां उन्नयनार्थं प्रशासनं निरन्तरं निरीक्षणं समीक्षा च क
कार्यों का निरीक्षण करते हुए


हरिद्वारम्, 29 मईमासः (हि.स.)।

विश्वप्रसिद्धकुम्भमेलापकस्य २०२७ सज्जतासम्बन्धे मेलाप्रशासनेन अवस्थापनानिर्माणकार्येषु तीव्रता आनिता। मार्गाणां, सेतूनां, स्वच्छताव्यवस्थायाः तथा यातायातसुविधानां उन्नयनार्थं प्रशासनं निरन्तरं निरीक्षणं समीक्षा च करोति।

मेलाप्रशासनेन विभिन्ननिर्माणकार्याणां गुणवत्तासुनिश्चित्यर्थं नियमितरूपेण मॉनिटरिंग् क्रियते। मेलाधिकारी श्रीमती सोनिका, वरिष्ठाधिकारिणः, तकनीकीविभागस्य अभियन्तारः तथा गुणवत्तापरीक्षणसंस्थानां दलं निरन्तरं स्थलीयनिरीक्षणं कृत्वा व्यवस्थायाः परीक्षणं कुर्वन्ति।

अस्यैव क्रमस्य अन्तर्गतं शुक्रवासरे अपरमेलाधिकारी श्री दयानन्दसरस्वती लोकनिर्माणविभागस्य नगरनिगमस्य च अधिकारिभिः सह भूपतवालासप्तसरोवरक्षेत्रस्य निरीक्षणं कृतवान्। अस्मिन् समये क्षेत्रस्य आन्तरिकमार्गाणां स्थितेः मूल्याङ्कनं कृतम् तथा मरम्मतसुधारकार्येषु सम्बन्धिताधिकारिभ्यः आवश्यकनिर्देशाः प्रदत्ताः।

निरीक्षणस्य समये अपरमेलाधिकारी उक्तवान् यत् मेलाप्रशासनं क्षेत्रीयमार्गाणां सुधारकार्यं सर्वोच्चप्राथमिकतया पश्यति। तेन उक्तं यत् मेलाधिकाऱिण्या अपि पूर्वं बहुवारं क्षेत्रस्य भ्रमणं कृत्वा स्थानीयसमस्यानां अध्ययनं कृतम् तथा अधिकारिभ्यः समयबद्धरूपेण कार्यसमापनस्य निर्देशाः प्रदत्ताः।

तेन भारतमातामन्दिरं राष्ट्रियराजमार्गेण संयोजयन्तः प्रमुखमार्गस्य शीघ्रगुणवत्तायुक्तनिर्माणस्य निर्देशाः प्रदत्ताः तथा उक्तं यत् एषः मार्गः श्रद्धालूनां यात्रिकाणां च कृते अत्यन्तं महत्त्वपूर्णः अस्ति। प्रतिदिनं विशालसङ्ख्यया जनानां आवागमनं दृष्ट्वा अस्य मार्गस्य सुदृढः सुगमश्च भवितुम् आवश्यकम्।

अपरमेलाधिकारी कुम्भमेलाकाले श्रद्धालुभ्यः उत्तमसुविधाप्रदानस्य उद्देश्येन स्वच्छताव्यवस्थां सुदृढां कर्तुं, नालिकानां नियमितस्वच्छतां कारयितुं तथा क्षेत्रे स्वच्छतां धारयितुं सम्बन्धिताधिकारिभ्यः निर्देशान् अपि प्रदत्तवान्।

अस्य अतिरिक्तं तेन धनौरीसिडकुलमार्गे पथरीरौनद्यां निर्मीयमाणस्य द्विपथीयमोटरसेतोः अपि स्थलीयनिरीक्षणं कृत्वा कार्यप्रगतेः समीक्षा कृता। तेन कार्यदायिसंस्थायै निर्माणकार्येषु तीव्रतां वर्धयितुं तथा निर्धारितसमयसीमायाः गुणवत्तामानकानां च अनुरूपं कार्यं सम्पादयितुं कठोरनिर्देशाः प्रदत्ताः।

निरीक्षणस्य समये अधिशासीअभियन्ता सिंचाई अनुभवनौटियालः, तकनीकीसेलस्य अभियन्ता अतुलशाण्डिल्यः सहिताः लोकनिर्माणविभागस्य नगरनिगमस्य च अनेकाधिकारिणः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani