Enter your Email Address to subscribe to our newsletters

अस्मिन् विस्तीर्णे चिन्तन-प्रवाहे भारतीय-दर्शनस्य मूलभूतः प्रश्नः प्रस्तुतः—अस्तित्वं किम्, सृष्टिः कथं जातम्, तस्य मूलतत्त्वं किम् इति। ऋग्वेदादारभ्य उपनिषद्-पर्यन्तं भारतीय-मनीषिणः एतान् प्रश्नान् केवलं उत्तररूपेण न, अपि तु निरन्तर-विचार-प्रक्रियया विवेचयन्ति।
ऋग्वेदस्य नासदीय-सूक्ते (10.129) सृष्टेः पूर्वावस्थायाः गहनं चिन्तनं दृश्यते—तदा न सत् आसीत् न असत्, अन्धकारः एव व्याप्तः, एकं तत् स्वतः एव स्थितम् इति। तथा “पुरुषसूक्ते” सर्वं जगत् एकस्मिन् एव पुरुषे व्याप्तम् इति प्रतिपाद्यते—पुरुष एवेदं सर्वम्।
तथा च अदिति-तत्त्वेन सर्वं अस्तित्वं एकरूपेण चिन्तितम् अस्ति—भूतं, भविष्यत्, वर्तमानं च तस्यैव रूपम् इति।
एतेन भारतीय-दृष्टिः स्पष्टा भवति यत् सृष्टिः कस्यचित् बाह्य-निर्मातुः केवलं कृतिः न, अपि तु एकस्य अविभक्त-तत्त्वस्य सतत-परिवर्तन-प्रक्रिया अस्ति। आकाशः, वायुः, अग्निः, जलं, पृथिवी इति पञ्चमहाभूतानि अपि तस्मिन् एकात्मके तत्त्वे एव विलीयन्ते।
एषा चिन्तन-परम्परा केवलं दार्शनिकी न, अपि तु वैज्ञानिक-दृष्ट्या अपि गहन-निरीक्षण-परम्परा अस्ति, यत्र प्रश्नः अन्तिम-उत्तरं न, अपि तु निरन्तरं अन्वेषणमेव जीवनम् इति मान्यते।
एवं भारतस्य मनीषा अस्तित्वं विभक्तं न पश्यति, किन्तु सर्वं जगत् एकस्मिन् एव चेतन-तत्त्वे व्याप्तम् इति एकात्म-दृष्ट्या अवलोकयति
हिन्दुस्थान समाचार / अंशु गुप्ता