असमविधानसभानिर्वाचनम् : 126 विधानसभाक्षेत्राणां 40 मतदान केंद्रेषु भविष्यति मतगणना
गुवाहाटी, 03 मईमासः (हि.स.)। मतगणनायै भारत निर्वाचन आयोग पूर्णतया सज्जः अस्ति। असमराज्यस्य ४० मतगणनाकेंद्रेषु कठोरसुरक्षाव्यवस्थायां मध्ये सोमवासरे प्रातः ८ वादनात् मतगणनाप्रक्रिया आरभ्यते। श्वः १२६ विधानसभा-क्षेत्राणां ७२२ प्रत्याशिनां भाग्यनिर्णय
असम विधानसभा चुनाव 2026


गुवाहाटी, 03 मईमासः (हि.स.)। मतगणनायै भारत निर्वाचन आयोग पूर्णतया सज्जः अस्ति। असमराज्यस्य ४० मतगणनाकेंद्रेषु कठोरसुरक्षाव्यवस्थायां मध्ये सोमवासरे प्रातः ८ वादनात् मतगणनाप्रक्रिया आरभ्यते। श्वः १२६ विधानसभा-क्षेत्राणां ७२२ प्रत्याशिनां भाग्यनिर्णयः भविष्यति।

उल्लेखनीयं यत्, गत ०९ अप्रिल-दिने एकस्मिन्नेव चरणे राज्ये विधानसभा-निर्वाचनार्थं मतदानं सम्पन्नम्। अस्मिन् समये राज्ये अभिलेखीयं ८५.५ प्रतिशतं मतदानं जातम्, यत् राज्यस्य इतिहासे उच्चतमम् अस्ति।

अस्मिन् निर्वाचने सत्ताधारी दलः भारतीय जनता पार्टी ९० आसनानि, असम गण परिषद २६ आसनानि, बोडोलैंड पीपुल्स फ्रंट ११ आसनानि, भारतीय राष्ट्रिय कांग्रेस ९९ आसनानि, असम जातीय परिषद १० आसनानि, राइजर दल १३ आसनानि, झारखंड मुक्ति मोर्चा १९ आसनानि, यूनाइटेड पीपुल्स पार्टी लिबरल १७ आसनानि, भारतीय कम्युनिस्ट पार्टी ५ आसनानि, नेशनल पीपुल्स पार्टी २ आसनानि, अखिल भारतीय संयुक्त लोकतांत्रिक मोर्चा २७ आसनानि, तृणमूल कांग्रेस २३ आसनानि, आम आदमी पार्टी २० आसनानि, भारतीय कम्युनिस्ट पार्टी (मार्क्सवादी) २ आसनानि, भारतीय कम्युनिस्ट पार्टी (मार्क्सवादी-लेनिनवादी) २ आसनानि, ऑल पार्टी हिल लीडर्स कॉन्फ्रेंस २ आसनयोः प्रत्याशिनः स्थापितवन्तः। अपि च २५९ प्रत्याशिनः निर्दलीयरूपेण प्रतिस्पर्धां कृतवन्तः।

मतगणनायाः प्रतीक्षा केवलं राजनेतृभिः एव न, अपि तु राज्यस्य जनतया अपि अत्युत्सुकतया क्रियते। सत्तापक्षः विपक्षश्च उभौ अपि स्वस्य विजयस्य दावं कुर्वन्ति। कस्य विजयः भविष्यति इति मतगणनानन्तरम् एव स्पष्टं भविष्यति।------------------

हिन्दुस्थान समाचार