Enter your Email Address to subscribe to our newsletters

आसनसोलम्, 03 मईमासः (हि. स.)।
पश्चिम बंगाल विधानसभा-निर्वाचनस्य २०२६ वर्षे द्वयोः चरणयोः सम्पन्नायां विशाल-मतदान-प्रक्रियायाम् अनन्तरं भारतीय जनता दलीयकार्यकर्तृषु नेतृषु च विशेषः उत्साहः दृश्यते। मतदातृभिः उत्साहपूर्वकं स्वमताधिकारस्य प्रयोगे कृते पार्टी-पक्षतः विभिन्नेषु क्षेत्रेषु धन्यवाद-यात्राः आयोजिताः सन्ति।
अस्मिन् क्रमॆ आसनसोल नगरे भाजपा-नेता कृष्णेन्दु-मुखर्जी-नेतृत्वे विशेषा धन्यवाद-यात्रा आयोजिता। अस्यां यात्रायां कार्यकर्तारः जनानां अभिनन्दनं कृत्वा लोकतन्त्रस्य अस्मिन् महोत्सवे सहभागितायै मतदातॄन् अभिनन्दितवन्तः। नेतारः उक्तवन्तः यत् बहुसंख्यया मतदानं कृत्वा जनतया लोकतन्त्रस्य सुदृढीकरणे महत् योगदानं कृतम्।
तथैव भाजपा-पक्षस्य बहवः प्रत्याशिनः विभिन्नेषु देवालयेषु गत्वा पूजां कृतवन्तः तथा सोमवासरे भविष्यन्त्याः मतगणनायाः पूर्वम् ईश्वरस्य आशीर्वादं याचितवन्तः। नेतारः बहुमतैः विजयस्य कामनां कृत्वा राज्ये परिवर्तनस्य विश्वासं अपि व्यक्तवन्तः।
धन्यवाद-यात्रायाः समये भाजपा-समर्थकेषु महान् उत्साहः दृश्यते स्म। सर्वत्र ध्वजैः नाराभिश्च सह कार्यकर्तारः जनान् अभिनन्दितवन्तः। दल-नेतारः दावं कृतवन्तः यत् अस्मिन् निर्वाचने जनतया भाजपा-पक्षे व्यापकः समर्थनः दत्तः, यस्य परिणामः मतगणना-दिने स्पष्टः भविष्यति।
---------------
हिन्दुस्थान समाचार