Enter your Email Address to subscribe to our newsletters




नवदिल्ली, 03 मईमासः (हि.स.)। बिहारराज्ये संभावित-मन्त्रिमण्डल-विस्तारं प्रति राजनीतिक-चञ्चलता तीव्रा जाता अस्ति। अस्मिन् समये मुख्यमन्त्रिणः सम्राट-चौधरी-नाम्नः सक्रियता राज्यसीमाभ्यः बहिः निर्गत्य राष्ट्रराजधानी नव-देहलीम् अपि प्राप्ता। रविवासरे मुख्यमन्त्री देहली-नगर्यां बहून् केन्द्रीय-मन्त्रिणः वरिष्ठ-नेतॄन् च समागत्य राज्यस्य विकास-समन्वय-राजनीतिक-रणनीतिसम्बद्धेषु महत्त्वपूर्णेषु विषयेषु चर्चा अकुरुत।
मुख्यमन्त्री माध्यमान् प्रति उक्तवान् यत् तेन रक्षामन्त्रिणा राजनाथ-सिंह-नाम्ना सह मेलनंकृतम्। अस्मिन् सन्दर्भे “विकसित-बिहार” इत्यस्य दृष्टिकोणं विषयीकृत्य विस्तीर्णा चर्चा अभवत्। सः अवदत् यत् रक्षामन्त्रिणः अनुभवः मार्गदर्शनं च राज्यस्य विकासाय नूतनां दिशां दास्यति।
ततः परं मुख्यमन्त्री रेलमन्त्रिणा अश्विनी-वैष्णव-नाम्ना सह अपि सौजन्य-मेलनं कृतवान्। अस्मिन् उपवेशने बिहारस्य रेल-आधारसंरचनां सुदृढीकर्तुं संयोजकतां वर्धयितुं विकास-परियोजनानां गतिं च तीव्रीकर्तुं विषये गम्भीरा चर्चा अभवत्। सः विश्वासं व्यक्तवान् यत् केन्द्रीय-सहयोगेन राज्ये रेल-जालस्य शीघ्र-विस्तारः भविष्यति।
मुख्यमन्त्री केन्द्रीय-मन्त्रिणा राजीव-रञ्जन-सिंह (ललन-सिंह) इत्यनेन सह अपि समागत्य बिहारसम्बद्धेषु विविधेषु विकासात्मक-विषयेषु विस्तरेण विचार-विमर्शं कृतवान् तथा राज्यस्य समग्र-विकासाय उत्तम-समन्वयस्य आवश्यकता निर्दिष्टा।
एवमेव केन्द्रीय-गृहराज्यमन्त्रिणा नित्यानन्द-राय-नाम्ना सह अपि तस्य भेंटः अभवत्। अस्मिन् उपवेशने “विकसित-भारत-समृद्ध-बिहार” इत्यस्य लक्ष्यं प्रति सकारात्मक-परिणाममुखी-चर्चा जाता।
मुख्यमन्त्री केन्द्रीय-मन्त्रिणं बिहारस्य पूर्व-मुख्यमन्त्रिणं च जीतन-राम-मांझी-नामानम् अपि सौजन्येन अभ्यगच्छत्। अपि च भाजपाया: राष्ट्रिय-महामन्त्री बिहार-प्रभारी विनोद-तावडे-नाम्ना सह अपि सः समागत्य संगठनात्मक-राजनीतिक-विषयेषु चर्चा कृतवान्।
राजनीतिक-विश्लेषकाणां मतम् अस्ति यत् एताः सर्वाः संगोष्ठ्यो बिहारराज्ये संभावित-मन्त्रिमण्डल-विस्तारात् पूर्वं राजनीतिक-समीकरणानां संतुलनाय तथा केन्द्र-राज्य-समन्वयस्य सुदृढीकरणाय महत्त्वपूर्णानि पादानि सन्ति। एभ्यः उपवेशनात् संकेताः लभ्यन्ते यत् राज्ये शीघ्रमेव मन्त्रिमण्डल-विस्तारसम्बद्धे महत्त्वपूर्णाः निर्णयाः गृह्यन्ते, तथा विकास-परियोजनानाम् अपि नूतना गति भविष्यति।---------------
हिन्दुस्थान समाचार