Enter your Email Address to subscribe to our newsletters

स्वास्थ्य मंत्रिणो जायसवालस्य अध्यक्षतायां मेडिकल कॉलेज रायगढे स्वशासी समितेः उपवेशनम्।
रायपुरम्, 3 मईमासः (हि. स.)।स्वर्गीय-लखीराम-अग्रवाल-स्मृति-शासकीय-चिकित्सा-महाविद्यालये रायगढ़-नगर्यां अद्य छत्तीसगढ़-आरोग्य-चिकित्सा-शिक्षण-अनुसन्धान-समितेः (स्वशासी-समितेः) साधारण-सभा आयोजिताऽभवत्।
अस्याः सभायाः अध्यक्षतां प्रदेशस्य स्वास्थ्य-मन्त्री श्याम-बिहारी-जायसवाल-नामकः अकरोत्। अस्मिन् उपवेशने वित्त-मन्त्री ओ पी चौधरी सहिताः अनेकाः जनप्रतिनिधयः वरिष्ठ-अधिकारीणश्च उपस्थिताः आसन्। सभायाः आरम्भः पूर्व-सभा-निर्णयानां पालन-प्रतिवेदनस्य समीक्षया अभवत्, यस्मिन् स्वास्थ्य-सेवानां अधिक-प्रभावकारितां जनोपयोगित्वं च सुनिश्चितुं आवश्यकाः निर्देशाः दत्ताः। चिकित्सा-महाविद्यालयस्य सम्बद्ध-चिकित्सालयस्य च सुविधाविस्तारः, गुणवत्तावृद्धिः, आधारभूत-संरचनायाः सुदृढीकरणं च विषये विशेषः बलः दत्तः।
रोगिणां कृते उन्नत-त्वरित-परिक्षण-सुविधानां प्रदानेन उद्देश्येन वर्ण-डॉप्लर, स्तन-परीक्षण-यन्त्रं (मेमोग्राफी), संधि-दूरदर्शी-परीक्षणम् (आर्थ्रोस्कोपी), प्रतिरक्षा-ऊतक-रसायन-परीक्षणम् (इम्यूनोहिस्टोकेमिस्ट्री), हार्मोन-परीक्षणं तथा एमआरआई-यन्त्रस्य क्रयः अनुमोदितः। एतासां सुविधानां आरम्भे सति स्थानीय-स्तरे उच्च-स्तरीय-परिक्षण-सेवाः उपलब्धाः भविष्यन्ति, उपचारस्य गुणवत्तायां च वृद्धिः भविष्यति।
सभायां चिकित्सालय-परिसरे जन-औषधि-केन्द्रस्य सह अमृत-औषधि-केन्द्रस्य आरम्भः, तथा रोगिणां तेषां परिजनानां च सुविधार्थं चतुर्विंशति-घण्टा-कैण्टीन-सेवाया संचालनम् अनुमोदितम्। नगरात् चिकित्सा-महाविद्यालयं प्रति सुगम-आवागमनार्थं सिटी-बस-सेवायाः आरम्भस्य निर्देशाः अपि दत्ताः। स्वास्थ्य-सेवानां निरन्तरता सुनिश्चितुं चिकित्सा-उपकरणानां वार्षिक-रक्षण-अनुबन्धः तथा समग्र-रक्षण-अनुबन्धः (सी एम सी) अपि स्वीकृतः। आवश्यक-मानव-संसाधन-प्राप्त्यर्थं वार्ड-बॉय, स्टाफ-नर्स-आदयः पदेषु नियुक्त्याः विषये निर्णयाः अपि कृताः।
आपत्कालीन-सेवानां सुदृढीकरणाय ऑक्सीजन-सिलिण्डराणां अग्निशमन-यन्त्राणां च संख्या-वृद्धिः अनुमोदिता। बाल-शिशु-रोग-विभागस्य गहन-चिकित्सा-कक्षे शय्यानां संख्या-वृद्धिः तस्य च निर्धारित-मानकानुसारं विकासः कर्तुं निर्देशाः दत्ताः, येन गम्भीर-रोगग्रस्त-बालकानां उत्तम-चिकित्सा भवेत्।
चिकित्सा-विद्यार्थिनां कृते उत्तम-शैक्षणिक-पर्यावरणं सुनिश्चितुं अत्याधुनिक-अध्ययन-कक्षस्य तथा क्रीडाङ्गणस्य विकासाय निर्देशाः दत्ताः, येन तेषां समग्र-विकासः संवर्ध्येत।
सभायां वित्त-मन्त्री ओ पी चौधरी इत्यनेन चिकित्सा-महाविद्यालयस्य पूर्व-अधिष्ठाता स्वर्गीय-डॉ विनित-जैन इत्यस्य उल्लेखनीय-योगदानं स्मृत्वा अस्थि-रोग-विभागस्य नामकरणं तस्य नाम्ना कर्तुं तस्य प्रतिमां स्थापयितुं च प्रस्तावः प्रस्तुतः, यः सर्वसम्मत्या अनुमोदितः।
अस्याः सभायाः निर्णयैः चिकित्सा-महाविद्यालये सम्बद्ध-चिकित्सालये च स्वास्थ्य-सेवानां गुणवत्ता, उपलब्धता, प्राप्तिश्च व्यापकतया सुधरिष्यति इति आशा व्यक्ता। सम्बन्धित-अधिकारीणः निर्देशिताः यत् सर्वाणि स्वीकृत-कार्याणि समय-सीमायां सम्पन्नानि कृत्वा सामान्य-जनान् शीघ्रं लाभान्वितान् कुर्वन्तु।
---------------
हिन्दुस्थान समाचार