बालकेषु मधुमेह-नियन्त्रणाय राष्ट्रिय-मार्गदर्शिकाः प्रकाशिताः, निःशुल्क-इंसुलिन-औषधं तथा परीक्षण-सुविधा च घोषिता
नवदिल्लीनगरम्, ०३ मईमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-तथा-परिवार-कल्याण-मन्त्रालयेन रविवासरे सार्वजनिक-स्वास्थ्य-सेवा-विषये आयोजिते राष्ट्रिय-शिखर-सम्मेलने बालकेषु ‘मधुमेह-मेलेटस’ (डायबिटीज) इत्यस्य प्रबन्धनाय विस्तीर्णाः राष्ट्रिय-मार्गदर्शिकाः प्
प्रतीकात्मक चित्र


नवदिल्लीनगरम्, ०३ मईमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-तथा-परिवार-कल्याण-मन्त्रालयेन रविवासरे सार्वजनिक-स्वास्थ्य-सेवा-विषये आयोजिते राष्ट्रिय-शिखर-सम्मेलने बालकेषु ‘मधुमेह-मेलेटस’ (डायबिटीज) इत्यस्य प्रबन्धनाय विस्तीर्णाः राष्ट्रिय-मार्गदर्शिकाः प्रकाशिताः। अस्याः पहलस्य कारणात् भारतं तेषु अल्पेषु देशेषु अन्तर्भूतम्, ये बाल्यकाले मधुमेह-रोगं सार्वजनिक-स्वास्थ्य-व्यवस्थायां समावेशितवन्तः।

मन्त्रालयेन उक्तं यत् एतेन तथ्येन प्रथमवारं देशे बाल-मधुमेहस्य परीक्षणाय, निदानाय, चिकित्साय च मानकीकृतः राष्ट्रिय-नमूना निर्मिता अस्ति। अस्य उद्देश्यं जन्मतः आरभ्य अष्टादश-वर्षपर्यन्तं सर्वेषां बालानां सार्वभौम-स्क्रीनिंग् सुनिश्चितम् अस्ति। योजनायाः अन्तर्गतं सामुदायिक-स्तरे तथा विद्यालयेषु प्रारम्भिक-लक्षण-परिचयानन्तरं शङ्किताः बालकाः जिला-स्तरीय-स्वास्थ्य-केंद्रेषु प्रेषयिष्यन्ते।

सर्वकारेण अस्याः योजनायाः अन्तर्गतं सार्वजनिक-स्वास्थ्य-केंद्रेषु विस्तृत-समर्थन-पैकेज-इत्यस्य अपि घोषणा कृता। अस्मिन् निःशुल्क-स्क्रीनिंग् तथा परीक्षण-सेवाः, आजीवनं निःशुल्क-इंसुलिन-चिकित्सा, ग्लूकोमीटर-तथा-परीक्षण-पट्टिकाः इत्यादीनि आवश्यक-उपकरणानि च प्रदास्यन्ते। अस्य लक्ष्यं विशेषतः निर्धन-तथा-मध्यम-वर्गीय-परिवाराणां आर्थिक-भारस्य न्यूनीकरणम् अस्ति।

शीघ्र-परिचयाय प्रोत्साहनार्थं मन्त्रालयेन “४-टी” ढाञ्चे विशेषं बलं दत्तम्, येन माता-पितरौ तथा शिक्षकाः प्रारम्भिक-लक्षणानि सुलभतया ज्ञातुं शक्नुयुः। तेषु पुनः पुनः मूत्रोत्सर्गः, अत्यधिक-तृष्णा, अत्यधिक-क्लान्तता अथवा आलस्यं, तथा आकस्मिक-वजन-ह्रासः इत्यादयः अन्तर्भवन्ति।

मार्गदर्शिकासु केवलं चिकित्सायाः एव न, अपि तु परिवाराणां सशक्तीकरणे अपि विशेषं ध्यानं दत्तम् अस्ति। अस्मिन् इंसुलिन-प्रदानस्य सम्यक्-प्रणाली, नियमित-निरीक्षणं, आपत्काल-स्थितौ प्रबन्धनस्य प्रशिक्षणं च समाविष्टम् अस्ति।

मन्त्रालयस्य मतं यत् एतेन समग्र-दृष्टिकोणेन देशे बाल-मधुमेह-रोगस्य समये एव परिचयः तथा उत्तम-चिकित्सा सम्भविष्यति, येन बालानां स्वास्थ्यं जीवन-गुणवत्ता च उन्नता भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता