राष्ट्रीय-बाल-स्वास्थ्य-कार्यक्रमः २.० प्रारब्धः, बालानां समग्र-स्वास्थ्याय नूतन-मार्गदर्शिकाः प्रकाशिताः
नवदिल्लीनगरम्, ०३ मईमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-तथा-परिवार-कल्याण-मन्त्रालयेन रविवासरे “सार्वजनिक-स्वास्थ्य-सेवा-वितरणे सर्वोत्तम-प्रथाः” इति विषये आयोजिते राष्ट्रिय-शिखर-सम्मेलने राष्ट्रिय-बाल-स्वास्थ्य-कार्यक्रमस्य (आरबीएसके) २.० इत्यस्य नू
प्रतीकात्मक चित्र


नवदिल्लीनगरम्, ०३ मईमासः (हि.स.)। केन्द्रीय-स्वास्थ्य-तथा-परिवार-कल्याण-मन्त्रालयेन रविवासरे “सार्वजनिक-स्वास्थ्य-सेवा-वितरणे सर्वोत्तम-प्रथाः” इति विषये आयोजिते राष्ट्रिय-शिखर-सम्मेलने राष्ट्रिय-बाल-स्वास्थ्य-कार्यक्रमस्य (आरबीएसके) २.० इत्यस्य नूतनाः संशोधिताश्च मार्गदर्शिकाः प्रकाशिताः। इयं पहलः देशे बालानां स्वास्थ्यस्य तथा समग्र-विकासस्य सुदृढीकरणाय महत्त्वपूर्णः चरणः अस्ति।

मन्त्रालयेन उक्तं यत् अस्य कार्यक्रमस्य मुख्यं उद्देश्यं पूर्वं प्रवर्तितस्य ‘४-डी-मॉडल’-इत्यस्य अधिक-सुदृढीकरणम् अस्ति। अस्मिन् ढाञ्चे चत्वारि प्रमुखाः श्रेण्यः— जन्मजात-दोषाः, रोगाः, न्यूनताः, कुपोषणम्, विकासात्मक-विलम्बः च— विशेषतया ध्यानं दास्यन्ते।

नूतन-मार्गदर्शिकासु आधुनिक-कालस्य स्वास्थ्य-चुनौतयः अपि समाविष्टाः सन्ति। तासु गैर-संक्रामक-रोगाः, मानसिक-स्वास्थ्यसम्बद्धाः समस्याः, व्यवहार-सम्बद्धाः विकाराः च प्रमुखाः सन्ति। एवं कार्यक्रमः पारम्परिक-स्वास्थ्य-समस्याभिः सह परिवर्तनशील-जीवनशैली-जनितानां समस्यानां समाधानमपि करिष्यति।

संशोधित-ढाञ्चे बालानां कृते निवारक-प्रोत्साहक-चिकित्सात्मक-सेवानां विस्तृतं स्वरूपं समाविष्टम् अस्ति। अंत कार्यक्रमः जन्मतः आरभ्य अष्टादश-वर्षपर्यन्तं बालकान् आच्छादयति तथा जीवनचक्र-आधारितं दृष्टिकोणं अधिकं प्रभावशालिनं करोति।

मन्त्रालयेन स्पष्टीकृतं यत् एतेषां मार्गदर्शिकानां सफल-क्रियान्वयनाय स्वास्थ्य-मन्त्रालयेन सह शिक्षा-विभागः, महिला-तथा-बाल-विकास-मन्त्रालयः च सहकार्यं करिष्यन्ति। अपि च विद्यालयाः, आङ्गनवाड़ी-केंद्राणि च स्क्रीनिंग-तथा-जागरूकता-केंद्ररूपेण विकसितानि भविष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता