Enter your Email Address to subscribe to our newsletters


अलवर-नगरम्, ०३ मईमासः (हि.स.)। अलवर-जनपदस्य कठूमर-विधानसभा-क्षेत्रात् चतुर्वारं निर्वाचितः वरिष्ठ-नेता बाबूलाल-बैरवः (७३) जयपुर-नगरे निधनं गतः। सः गत-१३ दिवसान् यावत् रोगपीडितः आसीत्, जयपुर-नगरे उपचार-काल एव रविवासरे प्रातःकाले प्रायः त्रिवादने स्वस्य अन्तिमं श्वासं त्यक्तवान्।
तस्य निधनस्य समाचारं श्रुत्वा कठूमर, खेड़ली तथा समीपवर्ती-क्षेत्रेषु शोक-तरंग: व्याप्त:। समर्थकैः तथा राजनैतिक-कार्यकर्तृभिः एतत् क्षेत्रस्य महती हानिः इति उक्तम्।
बाबूलाल-बैरवः राजस्थान-राज्यस्य राजनीतौ अनुभवी तथा जनाधारयुक्तः नेता आसीत्। सः कठूमर-विधानसभा-क्षेत्रात् चतुर्वारं विधायकः निर्वाचितः आसीत् तथा दीर्घकालं यावत् क्षेत्रीय-राजनीतौ सक्रियः आसीत्।
सः चतुर्वारं राजस्थान-विधानसभायाः सदस्यः आसीत्—
१९८०–१९८५ (प्रथमवारं निर्दलीय-रूपेण),१९८५–१९९० (काङ्ग्रेस-दलेन),२००८–२०१३ (भारतीय-जनता-पार्टी-दलेन),२०१८–२०२३ (काङ्ग्रेस-दलेन)।
स्वस्य राजनैतिक-जीवने सः विभिन्न-दलेषु स्थित्वापि क्षेत्रे दृढं परिचयं धृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता