Enter your Email Address to subscribe to our newsletters

वॉशिंग्टन/दोहा/तेहरान-नगराणि, ०३ मईमासः (हि.स.)। ईरानदेशेन अमेरिकादेशं प्रति नूतनः शान्ति-प्रस्तावः प्रेषितः, यः चतुर्दश-बिन्दुयुक्तः अस्ति। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड-ट्रम्प: अस्य प्रस्तावस्य प्राप्तिं स्वीकृतवान्। सः शनिवासरे पाम-बीच-आन्ताराष्ट्रिय-विमानतलस्य धावनपथेषु पत्रकारान् प्रति एतां सूचनां दत्तवान्। ट्रम्प: स्पष्टं कृतवान् यत् तस्मै अद्यापि न प्रतीयते यत् ईरानेन सह सहमतिर्भवितुं शक्यते। तेन उक्तं यत् सः शान्ति-प्रस्तावस्य गम्भीरतया समीक्षां करिष्यति।
अस्मिन् मध्ये अमेरिका-इजराइलयोः फेब्रुवरी-मासस्य अन्ते कृतानां सैन्य-आक्रमणानां अनन्तरं होर्मुज-जलडमरूमध्ये संकटं निरन्तरं गम्भीरतां गच्छति। कतार-देशस्य प्रधानमन्त्री ईरानदेशस्य विदेशमन्त्रिणं प्रति विवेकपूर्णं व्यवहारं कर्तुं परामर्शं दत्तवान्।
सीबीएस-न्यूज्, फॉक्स-न्यूज्, अल-जजीरा तथा तस्नीम-समाचार-माध्यमानां वृत्तान्तानुसारं राष्ट्रपतिः ट्रम्प् उक्तवान् यत् ईरानेन अद्यैव प्रस्तावः प्रेषितः। तथापि तस्मै न मन्यते यत् ईरानदेशः समझौते कर्तुं समर्थः भविष्यति। अस्मिन् प्रस्तावे आक्रमण-अकरणस्य गारण्टीति, नाकाबन्द्याः निरसनम्, लेबनानादिषु सर्वेषु स्थानेषु युद्धस्य समापनं च अपेक्षितम् आसीत्। सः अवदत्— “अहं अद्यापि एतत् न दृष्टवान्, अहं तस्य समीक्षां करिष्यामि, ततः अनन्तरं अस्माकं स्थितिः आधिकारिकरूपेण प्रकाशिता भविष्यति।”
ट्रम्प् ततः किञ्चित्कालानन्तरं ट्रुथ-सोशल-माध्यमे लिखितवान्— “मम मतं यत् ईरानस्य शान्ति-प्रस्तावः ग्राह्यः न भविष्यति। गत-४७ वर्षेषु ईरानेन मानवतायाः तथा विश्वं प्रति यत् कृतम्, तस्य पूर्णं दण्डं न दत्तम् अस्ति।” सः एतत् अपि उक्तवान् यत् सः एतं प्रस्तावं एयरफोर्स-वन-विमाने पठिष्यति। तेन उक्तं यत् ईरानदेशे बहु नाशः जातः अस्ति तथा सः सन्धे: कृते आतुरः अस्ति।
ट्रम्प: अवदत्— “समस्या एषा अस्ति यत् अधुना ईरानस्य सर्वमान्यः नेता कः अस्ति इति न ज्ञायते। कदाचित् कश्चन अग्रे आगच्छति, पुनः अपरः।” अस्याः स्थितेः कारणात् अमेरिकादेशेन पुनः कतिपय-स्थानेषु सैन्य-आक्रमणानि आरभ्यन्ते इति सम्भावना वर्तते। यदि ईरानेन काचित् अनुचित-क्रिया कृता, तर्हि तस्य परिणामः अत्यन्तं दारुणः भविष्यति।
ट्रम्पस्य अस्य वक्तव्यस्य अनन्तरं ईरानस्य इस्लामिक-रिवोल्यूशनरी-गार्ड्-कॉर्प्स: (आईआरजीसी) उक्तवान् यत् सः अमेरिकया सह पुनः युद्धाय सज्जः अस्ति।
अस्मिन् मध्ये व्हाइट-हाउस शनिवासरे अवदत् यत् निक-स्टिवर्ट् ईरान-अमेरिका-युद्धस्य समाप्तये कार्यरतस्य राजनयिक-दलस्य सदस्यः अभवत्। सः पूर्वं ट्रम्पस्य प्रथम-कार्यकाले विदेश-विभागस्य सदस्यः आसीत्। सः अनुभवी नीतिशास्त्र-विशेषज्ञः अस्ति तथा विशेष-दूतस्य स्टिव-विटकॉफस्य दलस्य महत्त्वपूर्णः सदस्यः अस्ति।
पूर्वमेव तस्नीम-समाचार-माध्यमेन उद्घाटितं यत् तेहरान-नगरात् अमेरिकादेशं प्रति चतुर्दश-बिन्दुयुक्तः प्रस्तावः प्रेषितः।
एतेन सैन्य-संघर्षेण चिन्तितः कतार-देशस्य प्रधानमन्त्री मोहम्मद-बिन-अब्दुल-रहमान्-बिन-जसीम-अल-थानी शनिवासरे ईरानस्य विदेशमन्त्री अब्बास-अराघची सह संवादं कृतवान्। इदं तस्मिन् काले जातम् यदा इजराइल-अमेरिका-आक्रमणानन्तरं कतारदेशस्य प्राकृतिक-गैस-उत्पादन-केन्द्राणि तथा हमाद-आन्ताराष्ट्रिय-विमानतलम् लक्ष्यीकृतम्।
कतार-विदेश-मन्त्रालयस्य वक्तव्ये उक्तं— “प्रधानमन्त्री संकटस्य शान्तिपूर्ण-समाधानाय क्रियमाणेषु मध्यस्थता-प्रयासेषु कतार-देशस्य पूर्ण-समर्थनं प्रतिपादितवान्। सः सर्वान् पक्षान् प्रति आह्वानं कृतवान् यत् ते एतेषां प्रयासान् प्रति सकारात्मक-प्रतिक्रियां ददतु, येन वार्तालापे प्रगतेः अनुकूलः वातावरणः निर्मीयेत तथा चिन्ताया: पुनरुत्थानस्य समस्या न्यूनीक्रियेत।” सः अपि उक्तवान् यत् ईरानदेशेन विवेकपूर्णं आचरणं कर्तव्यम् तथा अन्ताराष्ट्रिय-विधेः पालनम् आवश्यकम्।
हिन्दुस्थान समाचार / अंशु गुप्ता