मध्यप्रदेशे नर्मदा-संरक्षणाय स्तुत्या प्रयत्न:; ओंकारेश्वरे महारार्यिक्याः अनन्तरं पिष्टक-दीपकैः दीपदानं क्रियमाणम् अस्ति
खंडवा-नगरम्, ०३ मईमासः (हि.स.)। मध्यप्रदेशस्य जीवनरेखारूपेण मान्यमाना पवित्रा नर्मदा-नदी प्रदूषणात् रक्षणाय ओंकारेश्वर-मन्दिर-न्यासेन स्तुत्या प्रयत्न: आरब्ध: अस्ति। अधुना प्रतिदिनं नर्मदा-महारार्तिक्यै दीपदानाय चूर्ण-निर्मितानां दीपकानां प्रयोगः क
ओंकारेश्वर में नर्मदा नदी में दीपदान की तस्वीर


खंडवा-नगरम्, ०३ मईमासः (हि.स.)। मध्यप्रदेशस्य जीवनरेखारूपेण मान्यमाना पवित्रा नर्मदा-नदी प्रदूषणात् रक्षणाय ओंकारेश्वर-मन्दिर-न्यासेन स्तुत्या प्रयत्न: आरब्ध: अस्ति। अधुना प्रतिदिनं नर्मदा-महारार्तिक्यै दीपदानाय चूर्ण-निर्मितानां दीपकानां प्रयोगः क्रियते, येन धार्मिक-आस्थया सह पर्यावरण-संरक्षणस्य सन्देशः अपि प्रसारितः भवति।

खंडवा-जनपदस्य कलेक्टरः ऋषभ-गुप्तः रविवासरे उक्तवान् यत् ओंकारेश्वर-ज्योतिर्लिङ्ग-मन्दिरे श्रद्धालुभ्यः आटा-निर्मिताः दीपकाः उपलब्धाः क्रियन्ते, येन नर्मदा-नद्यां प्लास्टिक-थर्माकोल-आदीनां प्रदूषणकारी-वस्तूनां प्रवाहः निवार्यते। अस्य प्रयत्नस्य मुख्यं लक्ष्यं माता-नर्मदायाः पवित्रता-रक्षणं तथा श्रद्धालूनां स्वच्छता-पर्यावरण-संरक्षणयोः विषये जागरूकता-वर्धनम् अस्ति।

सः उक्तवान् यत् हरिद्वार-ऋषिकेश-तुल्येषु पवित्र-तीर्थस्थलेषु इव ओंकारेश्वर-नगरे अपि नर्मदा-तटे प्रतिदिनं सायंकाले भव्य-महारार्तिकी नियमितरूपेण आयोज्यते। अस्यां आरार्तिक्यां देश-विदेशात् आगच्छन्तः शतशः श्रद्धालवः दीपदानं कुर्वन्तः पुण्यलाभं प्राप्नुवन्ति।

उपायुक्त: गुप्तः अपि उक्तवान् यत् आटा-निर्मित-दीपकस्य बत्ती-दहनानन्तरं तत् चूर्णं जले सहजतया विलीयते तथा मत्स्यादीनां जलजीविनां कृते अहानिकरः भवति, अपि तु तेषां कृते भोजनरूपेण उपयुज्यते। ग्रामीण-आजीविका-अभियानद्वारा महिला-स्वयं-सहायता-समूहानां आटा-दीपक-निर्माणाय आर्थिक-सहायता अपि प्रदत्ता अस्ति, येन महिलाः आत्मनिर्भराः भवन्ति, नद्या च प्रदूषणात् रक्ष्यते तथा जलचराणां कृते भोजनमपि उपलब्धं भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता