खेलमन्त्री माण्डविया मदिकेरी-नगरे उदीयमानैः हॉकी-क्रीडकैः सह साक्षात्कारं कृतवान्, उक्तवान्— ‘भविष्यस्य ओलम्पिक्-क्रीडकाः’
मदिकेरी-नगरम्, ०२ मईमासः (हि.स.)। केन्द्रीय-खेलमन्त्री मनसुख-माण्डविया कर्नाटक-राज्यस्य मदिकेरी-नगरस्थं भारतीय-खेल-प्राधिकरणस्य (साई) प्रशिक्षण-केन्द्रं निरीक्षितवान् तथा युवा हॉकी-क्रीडकैः सह साक्षात्कारं कृतवान्। अस्मिन् अवसरे सः देशस्य विभिन्न-भ
खेलमन्त्री माण्डविया मदिकेरी-नगरे उदीयमानैः हॉकी-क्रीडकैः सह साक्षात्कारं कृतवान्, उक्तवान्— ‘भविष्यस्य ओलम्पिक्-क्रीडकाः’


मदिकेरी-नगरम्, ०२ मईमासः (हि.स.)। केन्द्रीय-खेलमन्त्री मनसुख-माण्डविया कर्नाटक-राज्यस्य मदिकेरी-नगरस्थं भारतीय-खेल-प्राधिकरणस्य (साई) प्रशिक्षण-केन्द्रं निरीक्षितवान् तथा युवा हॉकी-क्रीडकैः सह साक्षात्कारं कृतवान्। अस्मिन् अवसरे सः देशस्य विभिन्न-भागेभ्यः प्रतिभानां अन्वेषणं तासां च परिष्कारं प्रति विशेषं बलं दत्त्वा भारतं क्रीडा-महाशक्तिं कर्तुं एतत् अत्यन्तं महत्त्वपूर्णम् इति उक्तवान्।

माण्डविया विशेषतया कोडवा-समुदायस्य महिला-हॉकी-क्रीडिकाभि: सह संवादं कृत्वा तासां प्रतिभायाः प्रशंसां कृतवान्। तेन उक्तं यत् कोडगु-जनपदः भारतीय-हॉकी-क्रीडायाः दृढ-आधार-निर्माणे प्रमुखेषु क्षेत्रेषु अन्यतमः अस्ति। अस्मात् समुदायात् बहवः क्रीडकाः अन्ताराष्ट्रिय-स्तरे देशस्य प्रतिनिधित्वं कृतवन्तः सन्ति तथा च ओलम्पिक्-क्रीडासु अपि सहभागितां कृतवन्तः।

खेलमन्त्री अवदत् यत् देशे क्रीडानां कृते व्यापकं सुदृढं च संरचनात्मक-तन्त्रं निर्मीयते, यस्मिन् भूमिस्थरात् प्रतिभानां उत्थापनं प्राधान्येन स्वीक्रियते। सः विश्वासं व्यक्तवान् यत् भारते प्रतिभायाः काचन न्यूनता नास्ति, तथा च सम्यक्-दिशायां कृतैः प्रयासैः देशः वैश्विक-स्तरे क्रीडासु सुदृढं परिचयं निर्मातुं शक्नोति।

तेन उक्तं यत् शासनं क्रीडा-पर्यावरणस्य सुदृढीकरणाय सर्वान् सम्भवान् उपायान् करोति। महानां क्रीडा-आयोजनानां आतिथ्यं अपि अस्यां दिशि महत्त्वपूर्ण: प्रयत्न: अस्ति। माण्डविया आशां व्यक्तवान् यत् वर्षे २०३० तमे आयोजितासु कॉमनवेल्थ-क्रीडासु भारतीय-पुरुष- तथा महिला-हॉकी-दले उत्कृष्टं प्रदर्शनं करिष्यतः।

मदिकेरी-स्थितं साई-प्रशिक्षण-केन्द्रं आधुनिक-सुविधाभिः युक्तम् अस्ति, यत्र युवा-क्रीडकानां उच्च-स्तरीयं प्रशिक्षणं दीयते। एतत् केन्द्रं देशस्य विभिन्नेषु राष्ट्रीय-उत्कृष्टता-केन्द्रेषु प्रतिभानां निर्माणे महत्त्वपूर्णां भूमिकां निर्वहति।

माण्डविया क्रीडकानाम् उत्साहवर्धनं कृत्वा उक्तवान् यत् एते युवा-क्रीडकाः भविष्ये भारतस्य नाम उज्ज्वलं कर्तुं शक्नुवन्ति तथा च अन्ताराष्ट्रिय-मञ्चे देशं नवीन-उच्चता: प्रति नेतुं सामर्थ्यं धारयन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता