अग्रिमजमिन्युत्तरं दिल्लीं प्राप्नोत् पवन खेड़ा, इंदिरा भवने कांग्रेस कार्यकर्तारोऽकुर्वन् स्वागतम्
नवदिल्ली, 03 मईमासः (हि.स.)।उच्चतम-न्यायालयात् अग्रिमजामिनीं लब्ध्वा पवन-खेड़ा नामकः कांग्रेस-दलस्य नेता रविवासरे अत्र दलस्य मुख्यालयम् इन्दिरा-भवनम् आगच्छत्। तत्र दल-नेतृभिः कार्यकर्तृभिः च तस्य स्वागतं कृतम्। अस्य पूर्वं दिल्ली-नगरम् आगत्य विमानस
नई दिल्ली स्थित इंदिरा भवन में कांग्रेस नेता पवन खेड़ा का स्वागत करते पार्टी कार्यकर्ता


नवदिल्ली, 03 मईमासः (हि.स.)।उच्चतम-न्यायालयात् अग्रिमजामिनीं लब्ध्वा पवन-खेड़ा नामकः कांग्रेस-दलस्य नेता रविवासरे अत्र दलस्य मुख्यालयम् इन्दिरा-भवनम् आगच्छत्। तत्र दल-नेतृभिः कार्यकर्तृभिः च तस्य स्वागतं कृतम्। अस्य पूर्वं दिल्ली-नगरम् आगत्य विमानस्थानके अपि दल-कार्यकर्तृभिः पुष्पमालाभिः सह तस्य आदरपूर्वकं स्वागतं कृतम्। ततः सः साक्षात् इन्दिरा-भवनम् अगच्छत्।

पत्रकारैः सह संभाषणे पवन-खेड़ा अवदत् यत् कांग्रेस-दलस्य नेतृत्वं निरन्तरं निर्वाचन-आयोगस्य विश्वसनीयतां प्रति प्रश्नान् उत्तोलयति, किन्तु आयोगस्य पक्षात् कश्चन उत्तरः न प्रदीयते। सः उक्तवान् यत् संविधानं सर्वदा संकट-समये सहायं करोति। यदा कश्चन जनः क्लेशे भवति वा कस्यचित् दमनकारी-शासनस्य विरुद्धं संघर्षं करोति, तदा संविधानमेव तस्य रक्षणं करोति।

उल्लेखनीयम् अस्ति यत् उच्चतम-न्यायालयेन असम-राज्यस्य मुख्यमन्त्रिणः हिमन्त-बिस्व-सरमा इत्यस्य पत्नी रिनिकी-भुयां-शर्मा सम्बद्धे मानहानि-प्रकरणे पवन-खेड़ा इत्यस्मै अग्रिमजामिनं दत्तम्।

---------------

हिन्दुस्थान समाचार