Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 03 मईमासः (हि.स.)। केंद्रीय नवीन एवं नवीकरणीय ऊर्जा मंत्रालयेन अन्ताराष्ट्रिय सूर्यदिवसस्य अवसरे रविवासरे ‘रन फॉर सन’ नामक धावन-कार्यक्रमः आयोजितः। अस्मिन् सन्दर्भे अप्रिलमासे २.७ लक्षाधिकाः गृह-उपरि सौरसंयन्त्राणि स्थापितानि इति उपलब्धेः उत्सवः अपि कृतः।
मन्त्रालयस्य वक्तव्येन ज्ञायते यत्, मेजर ध्यानचन्द राष्ट्रीय क्रीडाङ्गणे आयोजिते अस्मिन् कार्यक्रमे २ किलोमीटर तथा ५ किलोमीटर दूरीषु धावनस्पर्धाः अभवन्, यस्मिन् सर्वे आयुवर्गाः जनाः उत्साहेन सहभागित्वं कृतवन्तः।
अस्मिन् अवसरे मन्त्रालयस्य सचिवः सन्तोषकुमार सारङ्गी उक्तवान् यत् ‘रन फॉर सन’ केवलं धावनस्पर्धा न, अपितु सतत-स्वावलम्बी-भारतस्य दिशि सामूहिकप्रयत्नस्य प्रतीकः अस्ति। सः अवदत् यत् सौरऊर्जायाः विस्तारद्वारा शुद्ध-ऊर्जायाः लाभः प्रत्येकगृहम् प्रति प्रापयितुं सरकारस्य विशेषः प्रयासः अस्ति।
मन्त्रालयेन उक्तं यत् एषा उपलब्धिः ‘प्रधानमन्त्री सूर्य घर मुफ्त बिजली योजना’ अन्तर्गतं प्राप्ता। अस्याः योजनायाः अन्तर्गतं अद्यपर्यन्तं ३० लक्षाधिकानि गृह-उपरि सौरसंयन्त्राणि स्थापितानि, येन देशस्य ४५ लक्षाधिकाः परिवाराः लाभान्विताः अभवन्।
कार्यक्रमे देशस्य सौरऊर्जा-क्षमतायाः वृद्धिः अपि प्रकाशिता। मार्चमासस्य ३१ दिनाङ्कपर्यन्तं भारतस्य कुल-सौरक्षमता १५० गीगावाट् पर्यन्तं प्राप्ता, या २०१४ वर्षे केवलं २.८२ गीगावाट् आसीत्। एवं गतवर्षेषु सौरऊर्जा-क्षमतायां उल्लेखनीयः विकासः अभवत्।
मन्त्रालयेन अपि सूचितं यत् देशस्य कुल-विद्युत्-क्षमतायाः प्रायः ५० प्रतिशतं अधुना अजीवाश्म-इन्धन-स्रोतसां माध्यमेन आगच्छति, यत् २०३० वर्षस्य लक्ष्यस्य पूर्वमेव साधितम्।
अधुना भारतं नवीकरणीय-ऊर्जा-क्षमतायाः क्षेत्रे विश्वे तृतीयस्थानं धारयति। अयं कार्यक्रमः देशे सौरऊर्जायाः प्रसारं तथा जनसहभागितां प्रोत्साहयितुं आयोजितः।
---------------
हिन्दुस्थान समाचार