ग्रेटर-नोएडानगरे पञ्चम-राष्ट्रीय-व्हीलचेयर-क्रीकेट-चैम्पियनशिप-स्पर्धा २०२६ आरब्धा
ग्रेटर-नोएडानगरम्, ०३ मईमासः (हि.स.)। व्हीलचेयर-क्रिकेट-इण्डिया-संघस्य (डब्ल्यू.सी.आई.ए.) द्वारा आयोजिता पञ्चमी-राष्ट्रीय-व्हीलचेयर-क्रिकेट-चैम्पियनशिप-स्पर्धा २०२६ आरब्धा अस्ति। ग्रेटर-नोएडा-स्थिते शहीद-विजय-सिंह-पथिक-क्रीडा-परिसरे प्रसिद्धः चलचित
व्हीलचेयर क्रिकेट चैंपियनशिप 2026 का शुभारंभ


ग्रेटर-नोएडानगरम्, ०३ मईमासः (हि.स.)। व्हीलचेयर-क्रिकेट-इण्डिया-संघस्य (डब्ल्यू.सी.आई.ए.) द्वारा आयोजिता पञ्चमी-राष्ट्रीय-व्हीलचेयर-क्रिकेट-चैम्पियनशिप-स्पर्धा २०२६ आरब्धा अस्ति। ग्रेटर-नोएडा-स्थिते शहीद-विजय-सिंह-पथिक-क्रीडा-परिसरे प्रसिद्धः चलचित्र-अभिनेता जैकी-श्रॉफः शनिवासरे अस्याः चैम्पियनशिप-स्पर्धाया: विधिवत् उद्घाटनं कृतवान्।

इयं प्रतिष्ठिता स्पर्धा ०३ मईमासतः १० मईपर्यन्तं प्रचलिष्यति। अस्यां देशस्य विविध-राज्येभ्यः आगताः शीर्ष-टीमाः “सुपर-फाइव” ग्रैण्ड-फाइनल-स्वरूपेण स्पर्धां करिष्यन्ति, येन भारत-देशे व्हीलचेयर-क्रिकेट-क्रीडाया: उच्चतमं स्तरं प्रदर्श्यते।

उद्घाटन-समारोहे अभिनेता जैकी-श्रॉफः क्रीडकानां उत्साहेन दृढ-संकल्पेन च अत्यधिकं प्रभावितः भूत्वा प्रेरणादायकं सन्देशं दत्तवान्। सः उक्तवान् यत् जीवनं निर्भयतया यापनीयम्। एते क्रीडकाः अत्युत्तमं क्रीडन्ति, तेषां उत्साहं दृष्ट्वा सः अभिभूतः जातः। सः अपि उक्तवान् यत् सः प्रतिवर्षम् अत्र आगन्तुं इच्छति तथा एतेषां क्रीडकानां समर्थनं कर्तुम् इच्छति, एवं च बृहद्-कम्पनयः अपि अग्रे आगत्य एतेषां प्रायोजकत्वं कुर्वन्तु।

कार्यक्रमस्य महत्त्वं वर्धयन् दिव्याङ्ग-क्रिकेट-परिषदः (डी.सी.सी.आई.) सचिवः रवि-कान्त-चौहानः क्रीडासु संस्थागत-सहयोगस्य समावेशितायाश्च महत्त्वं प्रतिपादितवान्। सः उक्तवान् यत् इयं चैम्पियनशिप एतेषां क्रीडकानां दृढ-संकल्पस्य प्रमाणम् अस्ति, तथा एते मंचाः प्रतिभायाः मान्यतायै अत्यावश्यकाः सन्ति।

व्हीलचेयर-क्रिकेट-इण्डिया-संघः देशव्यापीरूपेण अस्य क्रीडायाः प्रचार-प्रसारं तथा क्रीडकानां सशक्तिकरणं कुर्वन् अस्ति, इयं चैम्पियनशिप अपि तस्य प्रमुख-प्रतियोगितासु अन्यतमा अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता