विधानसभानिर्वाचनम् : श्वः राज्यस्य 62 केन्द्रेषु त्रिस्तरीय सुरक्षावृत्ते भविष्यति मतगणना, सर्वाःसज्जाः पूर्णाः
चेन्नई, 03 मईमासः(हि.स.)। तमिलनाडु विधानसभानिर्वाचनस्य मतगणनायाः सोमवासरे सम्पन्नस्य सर्वाः व्यवस्थाः पूर्णतया सिद्धाः सन्ति। मतगणनार्थं राज्ये सर्वत्र द्विषष्टिः (62) केन्द्राणि स्थापितानि सन्ति। राज्यस्य सर्वेषु मतदानकेन्द्रेषु त्रिस्तरीया सुरक
अर्चना पटनायक


चेन्नई, 03 मईमासः(हि.स.)।

तमिलनाडु विधानसभानिर्वाचनस्य मतगणनायाः सोमवासरे सम्पन्नस्य सर्वाः व्यवस्थाः पूर्णतया सिद्धाः सन्ति। मतगणनार्थं राज्ये सर्वत्र द्विषष्टिः (62) केन्द्राणि स्थापितानि सन्ति। राज्यस्य सर्वेषु मतदानकेन्द्रेषु त्रिस्तरीया सुरक्षा व्यवस्था विन्यस्ता अस्ति। निर्वाचनपरिणामान् ज्ञातुं न केवलं तमिलनाडुराज्यं अपितु समग्रं देशम् उत्सुकतया प्रतीक्षते।

तमिलनाडुराज्यस्य मुख्यनिर्वाचनाधिकारिणी अर्चना पटनायक रविवासरे प्रकाशिते वक्तव्ये उक्तवती यत् 23 अप्रैल दिनाङ्के सम्पन्नस्य विधानसभानिर्वाचनस्य मतगणना 4 मई दिनाङ्के भविष्यति। राज्यस्य 75,064 मतदानकक्षेषु उपयुज्यमानानां मतानां तथा डाकमतपत्राणां गणनार्थं 62 मतगणनाकेंद्राणि विनिर्मितानि सन्ति। सा अपि अवदत् यत् इलेक्ट्रॉनिक मतदानयन्त्रेषु निबद्धानां मतानां गणनार्थं सर्वाः व्यवस्थाः पूर्णतया कृताः सन्ति।

डाकमतपत्राणां तथा इलेक्ट्रॉनिकरूपेण प्रेषितानां डाकमतपत्राणां (ईटीपीबीएस) गणनार्थं तथा ईवीएम मतगणनार्थं समग्रे 3,324 गणनापट्टिकाः विन्यस्ताः सन्ति। प्रत्येकेषु 500 डाकमतपत्रेषु एकः गणनापट्टः स्थापितः अस्ति। अस्य कृते 1,135 अतिरिक्त सहायकनिर्वाचनाधिकारिणः नियुक्ताः सन्ति। मतगणनाकार्यं निर्वाचनाधिकारीणां तथा सहायकनिर्वाचनाधिकारीणां सहयोगेन सम्पन्नं भविष्यति। मतगणनार्थं कुलं 10,545 कर्मचारी नियुक्ताः सन्ति। प्रक्रियायाः पारदर्शिता निष्पक्षता च सुनिश्चितुं 4,624 सूक्ष्मपर्यवेक्षकाः अपि नियुक्ताः सन्ति।

भारतस्य निर्वाचनायोगेन प्रत्येकस्मै विधानसभा क्षेत्राय एकैकः कृत्वा कुलं 234 मतगणनापर्यवेक्षकाः नियुक्ताः सन्ति ये प्रक्रियायाः पर्यवेक्षणं करिष्यन्ति तथा आयोगस्य निर्देशानां कठोरतया पालनं सुनिश्चितं करिष्यन्ति।

मतगणनाकेंद्रेषु त्रिस्तरीया सुरक्षा व्यवस्था विन्यस्ता अस्ति। प्रथमस्तरे बाह्यपरिधौ प्रत्येकस्य मतगणनाकेंद्रस्य परितः 100 मीटरपर्यन्तं सुरक्षा घेरा निर्मितः अस्ति, यत्र केवलं अधिकृतव्यक्तीनामेव प्रवेशः अनुमन्यते। प्रवेशद्वारेषु परिचयपत्रपरीक्षणं शारीरिकतलाशी च करणाय पर्याप्तसंख्यया पुलिसकर्मिणः नियुक्ताः सन्ति।

द्वितीयस्तरे मध्यपरिधौ मतगणनापरिसरस्य प्रवेशद्वाराणि राज्यसशस्त्रबलैः संरक्ष्यन्ते। अस्मिन् क्षेत्रे अनधिकृतगमनागमनं निषिद्धं अस्ति तथा सञ्चारसाधनानां उपयोगः केवलं निर्दिष्टस्थानेषु एव अनुमतः अस्ति।

तृतीयस्तरे आन्तरिकपरिधौ यत् अत्यन्तमहत्त्वपूर्णं सुरक्षा स्तरं अस्ति, तत्र मतगणनाकक्षाणां तथा ईवीएमसुरक्षाकक्षाणां प्रवेशद्वाराणि केन्द्रीयसशस्त्रपुलिसबलैः संरक्ष्यन्ते। सुरक्षार्थं स्थानीयपुलिसेन सह राज्यसशस्त्रबलानि अपि नियुक्तानि सन्ति, तथा केन्द्रीयसशस्त्रपुलिसबलस्य 65 कंपन्यः मतगणनाकेंद्रेषु तैनाताः सन्ति।

मुख्यनिर्वाचनाधिकारिणी अर्चना पटनायक अवदत् यत् मतगणना प्रातः 8 वादने डाकमतपत्रगणनया आरभ्यते। ततः प्रातः 8:30 वादने इवीएममतानां गणना प्रारभ्यते। सर्वेषां विधानसभा क्षेत्राणां चरणानुसारिणः परिणामाः सम्बन्धितनिर्वाचनाधिकारीभिः मतगणनाकेंद्रेषु स्थापितेन सार्वजनिकघोषणाप्रणाल्या उद्घोष्यन्ते।

---------------

हिन्दुस्थान समाचार