Enter your Email Address to subscribe to our newsletters

भाजपा हिसार विधानसभा शक्ति केंद्र प्रमुखानामुपवेशनस्य आयोजनम्
हिसारः, 30 मईमासः (हि.स.)।
भाजपाजिलाध्यक्ष्या डॉ. आशाखेदड़या उक्तं यत् दलस्य संगठनमेव तस्य महान् शक्तिस्रोतः अस्ति तथा शक्तिकेन्द्रप्रमुखाः संगठनस्य मेरुदण्डरूपाः सन्ति। तया सर्वेभ्यः पदाधिकारिभ्यः कार्यकर्तृभ्यश्च पूर्णनिष्ठया समर्पणेन सक्रियतया च कार्यं कर्तुम् आह्वानं कृतम्।
डॉ. आशाखेदड़ शनिवासरे भाजपाजिलाकार्यालये हिसारविधानसभायाः सर्वेषां शक्तिकेन्द्रप्रमुखाणां उपवेशने सम्बोधनं कुर्वती आसीत्। तया उक्तं यत् सर्वे शक्तिकेन्द्राः दलस्य सुदृढीकरणाय कार्यं कुर्वन्तु तथा जनतां प्रति दलस्य नीतयः प्रेषयन्तु। केन्द्रप्रदेशशासनयोः कल्याणकारीनीतिभ्यः जनतायै प्राप्तलाभानां विषये अपि जनान् अवगतं कुर्वन्तु, येन नागरिकाः तेषां लाभं ग्रहीतुं शक्नुयुः।
भाजपाजिलामाध्यमप्रभारी राजेन्द्रसपड़ा अवदत् यत् बैठके संगठनं बूथस्तरपर्यन्तं अधिकं सुदृढं कर्तुं, आगामिसंगठनात्मककार्यक्रमाणां रूपरेखां निर्धारयितुं तथा केन्द्रशासनस्य जनकल्याणकारीयोजनाः अन्तिमव्यक्तिपर्यन्तं प्रापयितुं विषये विस्तृता चर्चा कृता।उपवेशने आगामिकार्यक्रमाणां सिद्धता, बूथप्रबन्धनं, जनसम्पर्कअभियानं तथा शासनस्य योजनानां प्रभावीक्रियान्वयनस्य विषये अपि विस्तरेण विचारविमर्शः अभवत्।
तत्र आगमने जिलाध्यक्षायाः डॉ. आशाखेदड़ायाः कार्यकर्तृभिः पुष्पगुच्छं प्रदाय स्वागतं कृतम्। अस्मिन् अवसरे उपर्युक्तजनान् अतिरिक्त्य जिलामहामन्त्री कृष्णसरसाना, उपाध्यक्षः संजीवरेवड़ी, मुनीषऐलावादी, सतीशसुरलिया, कृष्णखटाना, पिंकीशर्मा, पीयूषमहता, महेशमहता, विधानसभा संयोजकः रामचन्द्रगुप्तः, मण्डलाध्यक्षः लोकेशअसीजा, दीपकअग्रवालः, राहुलसैनी, राजकुमारइन्दौरा, एड्वोकेट् अजयबैनीवालः, विनोदतोशावड़ः, रतनसैनी, धर्मवीरपानू, कैप्टननरेन्द्रशर्मा, जितेन्द्रबड़क, प्रोमिलापूनिया, मनोजकेसरी च सहिताः अनेकाः पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani