डिजिटल-स्वास्थ्य-अभियाने भारतेन महती उपलब्धिः अभिलिखिता, आभा-लेखानां संख्या ९० कोटिम् अतिक्रान्तवती
नवदेहली, ३० मे-मासः (हि.स.)। देशेन डिजिटल-स्वास्थ्य-क्षेत्रे महती उपलब्धिः अभिलिखिता। आयुष्मान-भारत-डिजिटल-अभियानस्य (एबीडीएम) अन्तर्गतं ९० कोटिभ्यः अधिकाः आयुष्मान-भारत-स्वास्थ्य-लेखाः (आभा) निर्मिताः सन्ति। आभा १४-अङ्कात्मकः डिजिटल-स्वास्थ्य-परि
राष्ट्रीय स्वास्थ्य मिशन द्वारा जारी आंकड़ों की फोटो


नवदेहली, ३० मे-मासः (हि.स.)। देशेन डिजिटल-स्वास्थ्य-क्षेत्रे महती उपलब्धिः अभिलिखिता। आयुष्मान-भारत-डिजिटल-अभियानस्य (एबीडीएम) अन्तर्गतं ९० कोटिभ्यः अधिकाः आयुष्मान-भारत-स्वास्थ्य-लेखाः (आभा) निर्मिताः सन्ति।

आभा १४-अङ्कात्मकः डिजिटल-स्वास्थ्य-परिचयाङ्कः अस्ति, यस्य माध्यमेन नागरिकाः स्वकीयान् स्वास्थ्य-अभिलेखान् सुरक्षितरूपेण संयोजयितुं, द्रष्टुं तथा आवश्यकता-अनुसारं स्वसहमत्याः आधारेण साझां कर्तुं शक्नुवन्ति। अनेन रोगिणां कृते पुनः पुनः चिकित्सकीय-तथ्यानां वहनस्य आवश्यकता न्यूना भवति तथा चिकित्सोपचार-प्रक्रिया अधिका सरला भवति।

शनिवासरे राष्ट्रिय-स्वास्थ्य-अभियानेन गत-पञ्चवर्षाणां सांख्यिकीय-विवरणानि प्रकाशितानि। एतेषां विवरणानां अनुसारं वर्षे २०२१ तमे १४.७ कोटि लेखाः आसन्, यदा तु २०२२ तमे तेषां संख्या ३०.४ कोटिम्, २०२३ तमे ५०.६ कोटिम्, २०२४ तमे ७२.२ कोटिम्, २०२५ तमे च ८४.५ कोटिम् उपागच्छत्। अधुना २०२६ तमे वर्षे एषा संख्या ९० कोटिं अतिक्रान्तवती अस्ति।

राज्यानां विषये उत्तरप्रदेशः १५.३ कोटिभ्यः अधिकैः आभा-लेखैः सह देशे प्रथमस्थाने वर्तते। राजस्थाने तथा महाराष्ट्रे ७.१–७.१ कोटि:, बिहारे ६.३ कोटि: तथा पश्चिमबङ्गाले ५.९ कोटि आभा-लेखाः निर्मिताः सन्ति। महिलानां सहभागिता अपि उल्लेखनीया आसीत्। समग्रेषु आभा-लेखधारकेषु प्रायः ४९.७५ प्रतिशतं महिलाः सन्ति, यत् डिजिटल-स्वास्थ्य-सेवासु वर्धमानां सहभागितां जागरूकतां च प्रदर्शयति।

राष्ट्रीय-स्वास्थ्य-प्राधिकरणस्य (एनएचए) मुख्य-कार्यकारी-अधिकारी डॉ.सुनील-कुमार-बर्नवालः विज्ञप्तौ उक्तवान् यत् ९० कोटिभ्यः अधिकानां आभा-लेखानां निर्माणं नागरिकानां, राज्यानां, केन्द्रशासित-प्रदेशानां तथा विविध-सहभागि-संस्थानां सहयोगस्य परिणामः अस्ति। सः उक्तवान् यत् आभा नागरिकेभ्यः स्वकीय-स्वास्थ्य-सूचनानां विषये सुरक्षितं सहमति-आधारितं च नियन्त्रणं प्रददाति तथा भविष्ये स्वास्थ्य-सेवाः अधिकाः सुलभाः प्रभावकारिण्यः च करिष्यति।

सर्वकारस्य कथनानुसारम् आयुष्मान-भारत-डिजिटल-अभियानस्य माध्यमेन देशव्यापकं एतादृशं डिजिटल-स्वास्थ्य-जालकं निर्मीयते, यत्र नागरिकाणां स्वास्थ्य-अभिलेखाः सुरक्षिताः, वोढव्याः (पोर्टेबल) तथा सुलभरूपेण उपलब्धाः भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan