अमेरिकी-राष्ट्रपतिः डोनाल्ड-ट्रम्पस्य पुत्री आगरानगरम् आगता, पत्या सह ताजमहलस्य अवलोकनं कृतवती
आगरानगरम्, ३० मे-मासः (हि.स.)। अमेरिकी-राष्ट्रपतिः डोनाल्ड-ट्रम्पस्य पुत्री टिफनी-ट्रम्प शनिवासरे पत्या सह उत्तरप्रदेशस्य आगरानगरम् आगता तथा ताजमहलस्य अवलोकनं कृतवती। अस्मिन् अवसरे भारते अमेरिकादेशस्य राजदूतः सर्जियो-गोर: अपि ताभ्यां सह उपस्थितः आस
डोनाल्ड ट्रंप की पुत्री ताजमहल में पति के साथ


आगरानगरम्, ३० मे-मासः (हि.स.)। अमेरिकी-राष्ट्रपतिः डोनाल्ड-ट्रम्पस्य पुत्री टिफनी-ट्रम्प शनिवासरे पत्या सह उत्तरप्रदेशस्य आगरानगरम् आगता तथा ताजमहलस्य अवलोकनं कृतवती। अस्मिन् अवसरे भारते अमेरिकादेशस्य राजदूतः सर्जियो-गोर: अपि ताभ्यां सह उपस्थितः आसीत् तथा विश्वविख्यातस्य ताजमहलस्य सौन्दर्यम् अवलोकितवान्।

टिफनी-ट्रम्प व्यवसायिना पत्या माइकल-ट्रम्पेन सह शनिवासरे पूर्वाह्णे प्रायः ११:१५ वादने आग्रा-सिविल-विमानपत्तनम् आगता। विमानपत्तनात् सा प्रत्यक्षं ताजगञ्ज-क्षेत्रस्थं पञ्चतारकीय-विश्रामगृहं गतवती। तत्र अल्पकालं विश्रामं कृत्वा सा विश्रामगृहात् प्रत्यक्षं शिल्पग्रामम् अगच्छत्। शिल्पग्रामात् बैटरी-चालित-गोल्फ-यानस्य माध्यमेन पत्या सह ताजमहलस्य पूर्व-द्वारम् उपगम्य पद्भ्यां ताजमहल-परिसरं प्रविष्टवती।

ट्रम्पस्य पुत्री तस्याः पतिश्च विश्वविख्यात-धरोहरस्य ताजमहलस्य सौन्दर्यं दृष्ट्वा अत्यन्तं प्रहृष्टौ अभवताम्। तौ तत् सौन्दर्यं छायाचित्र-यन्त्रेण अपि संगृहीतवन्तौ। डायना-पीठिकायाम् उपविश्य उभाभ्याम् छायाचित्राणि गृहीतानि। यद्यपि टिफनी-ट्रम्पस्य ताजमहल-दर्शनस्य कार्यक्रमः सायंकालस्य आसीत्, तथापि अद्य आगरानगरे अनुकूल-वातावरणस्य अल्पोष्णतायाश्च कारणेन कार्यक्रमे परिवर्तनं कृत्वा मध्याह्नस्य तीव्रातपात् पूर्वमेव दर्शन-कार्यक्रमः सम्पन्नः।

टिफनी प्रायः १२ वादने ताजमहलम् उपागच्छत् तथा प्रायः पञ्चत्रिंशत्-निमेष-पर्यन्तं तस्य सौन्दर्यं निरीक्ष्य ततः प्रत्यक्षं विश्रामगृहं प्रत्यगच्छत्। अमेरिकी-राष्ट्रपतिपरिवारस्य सदस्यत्वात् अस्य भ्रमण-कार्यक्रमस्य कृते समुचिता सुरक्षा-व्यवस्था कृता आसीत्।

ताजमहले नियुक्तः भारतीय-पुरातत्त्व-सर्वेक्षणस्य वरिष्ठ-सर्वेक्षण-सहायकः कलन्दर-विज: अवदत् यत् प्रायः षड्वर्षेभ्यः पूर्वं २०२० तमे वर्षे राष्ट्रपति: डोनाल्ड-ट्रम्पः पत्नी मेलानिया-ट्रम्प:, पुत्री इवांका-ट्रम्प: तथा जामाता जेरेड-कुशनर: इत्येतैः सह आगरानगरम् आगतः आसीत्। तस्मिन् अवसरे ट्रम्प-परिवारेण ताजमहलस्य भ्रमणं कृतम् तथा छायाचित्राण्यपि गृहीतानि आसन्। अधुना प्रायः षड्वर्षाणां अनन्तरं ट्रम्प-परिवारस्य अपरापि पुत्री टिफनी-ट्रम्प: ताजमहल-दर्शनार्थम् आगता अस्ति।

Hindusthan Samachar / Divya Ranjan