Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, २९ मे-मासः (हि.स.)। असमराज्यस्य राज्यपालः लक्ष्मणप्रसाद-आचार्यः मंगोलियादेशे आयोज्यमानस्य पवित्र-प्रदर्शनी-कार्यक्रमस्य कृते भगवतः बुद्धस्य द्वयोः प्रमुखशिष्ययोः अरहन्त-सारिपुत्रस्य अरहन्त-मौद्गल्यायनस्य च पवित्र-अवशेषान् वहतः भारतीय-प्रतिनिधिमण्डलस्य नेतृत्वं करिष्यति। एषः कार्यक्रमः संस्कृतिमन्त्रालयस्य तत्त्वावधाने आयोज्यते।
मध्यप्रदेशस्य सांची-विहार-चैत्ये संरक्षिताः एते पवित्र-अवशेषाः ९ जूनमासपर्यन्तं मंगोलियादेशे स्थाप्यन्ते। अस्याः आध्यात्मिक-सांस्कृतिक-यात्रायाः उद्देश्यं भारत-मंगोलियादेशयोः शताब्दिपुरातनानां सभ्यतागत-बौद्धसम्बन्धानां अधिकं सुदृढीकरणम् अस्ति।
यूनेस्को-विश्वधरोहर-स्थले सांची-स्तूपेन सम्बद्धाः एते पवित्र-अवशेषाः विश्वस्य बौद्धानुयायिनां कृते अत्यन्तं श्रद्धायाः विषयाः सन्ति। एषः प्रयत्नः प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन विशेषरूपेण कृता, येन भारत-मंगोलियादेशयोः सांस्कृतिक-आध्यात्मिकसम्बन्धाः अधिकं प्रगाढाः भवेयुः। मंगोलियादेशः बौद्धजगति भारतस्य आध्यात्मिक-प्रतिवेशी इति मन्यते।
राज्यपालः आचार्यः शनिवासरे पूर्ण-राजकीय-सम्मानेन पवित्र-अवशेषान् प्रतिनिधिमण्डलेन सह गृहीत्वा प्रस्थितः भविष्यति। मंगोलियादेशे आयोज्यमानायां प्रदर्शनीयां बहुसंख्यकाः श्रद्धालवः, भिक्षवः, विद्वांसः आध्यात्मिकानुयायिनश्च एतेषां पवित्र-अवशेषाणां दर्शनं कृत्वा श्रद्धाञ्जलिं समर्पयिष्यन्ति।
एतत् आयोजनं भारत-मंगोलियादेशयोः साझा-बौद्ध-धरोहरस्य प्रगाढ-मित्रतायाश्च प्रतीकरूपेण दृश्यते। राज्यपालस्य आचार्यस्य ३ जून-मासे भारतं प्रत्यागमनस्य सम्भावना अस्ति।
Hindusthan Samachar / Divya Ranjan