बोधगया प्राप्तवान् म्यांमार-देशस्य राष्ट्रपतिः मिन-आङ्-ह्लैङ्गः महाबोधि-मन्दिरे पूजार्चनां कृतवान्
गयाजीनगरम्, ३० मे-मासः (हि.स.)। बौद्धधर्मस्य विश्वविख्यातं तपोभूमिः मोक्षस्थली च बोधगया शनिवासरे तदा अन्तरराष्ट्रीय-राजनयिक-गतिविधीनां केन्द्रं जातम्, यदा म्यांमार-देशस्य राष्ट्रपतिः मिन-आङ्-ह्लैङ्गः उच्चस्तरीय-प्रतिनिधिमण्डलेन सह पञ्चदिवसीय-भारत-य
गया जी हवाई अड्डा पर म्यांमार के राष्ट्रपति का स्वागत करते मंत्री विजय सिन्हा


गयाजीनगरम्, ३० मे-मासः (हि.स.)। बौद्धधर्मस्य विश्वविख्यातं तपोभूमिः मोक्षस्थली च बोधगया शनिवासरे तदा अन्तरराष्ट्रीय-राजनयिक-गतिविधीनां केन्द्रं जातम्, यदा म्यांमार-देशस्य राष्ट्रपतिः मिन-आङ्-ह्लैङ्गः उच्चस्तरीय-प्रतिनिधिमण्डलेन सह पञ्चदिवसीय-भारत-यात्रायाः अन्तर्गतं गयाजी नगरं प्राप्तवान्। तस्य आगमने बिहार-राज्यपालः सैयद-अताहसनैन तथा राज्यस्य कृषिमन्त्री विजयकुमारसिन्हा तस्य स्वागतम् अकुरुताम्। ततः सः सुरक्षा-व्यवस्थायाः मध्ये बोधगयां प्रति प्रस्थितः।

शनिवासरे प्रातः विशेष-विमानेन गयाजी-अन्ताराष्ट्रिय-विमानपत्तने प्राप्तस्य राष्ट्रपतेः मिन-आङ्-ह्लैङ्गस्य स्वागताय प्रशासनिक-आरक्षक-अधिकारीणां विशाल-दलम् पूर्वमेव उपस्थितम् आसीत्। औपचारिक-स्वागतानन्तरं तस्य समूह: सुरक्षा-परिवेष्टनेन सह बोधगयां प्रति गतः। विमानपत्तनात् बोधगयां यावत् सम्पूर्ण-मार्गे विशेष-सुरक्षा-व्यवस्था कृता अस्ति।

बोधगयां प्राप्त्वा सः किञ्चित् कालं एकस्मिन् निजी-होटल-इत्यत्र विश्रामं कृतवान्। ततः सः विश्व-धरोहर-रूपेण प्रसिद्धं महाबोधि-मन्दिरं गत्वा भगवन्तं बुद्धं प्रति श्रद्धां प्रकटितवान् तथा विधिवत् पूजार्चनां कृतवान्। सः मन्दिर-परिसरस्य भ्रमणम् अपि कृतवान् तथा बौद्ध-धरोहरेण सम्बद्धानि विविध-स्थलानि अवलोकितवान्। तेन सह आगता' प्रतिनिधिमण्डलस्य सदस्याः अपि महाबोधि-मन्दिरस्य ऐतिहासिकां आध्यात्मिकीं च महत्तां समीपतः दृष्टवन्तः।

राष्ट्रपतेः भ्रमणं दृष्ट्वा बोधगयायां विशेष-उत्साहः दृश्यते स्म। सुरक्षा-व्यवस्थायाः कारणात् सम्पूर्णं नगरं आरक्षक-छावनीरूपेण परिवर्तितम्। प्रमुखमार्गेषु अतिरिक्त-बलस्य नियुक्तिः कृता, संवेदनशील-स्थानेषु च विशेष-निरीक्षणं स्थापितम्। जनपद-प्रशासनं सुरक्षा-संस्थाश्च पूर्ण-सावधानतया कार्यं कुर्वन्ति।

अस्मिन् अवसरे बिहार-राज्यस्य कृषिमन्त्री विजय-कुमार-सिन्हा सामाजिक-माध्यमे ‘एक्स’ इत्यत्र उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिन: नेतृत्वे भारत-म्यांमार-देशयोः मध्ये सहयोगः सांस्कृतिक-आदान-प्रदानं च निरन्तरं वर्धमानम् अस्ति।

म्यान्मार-राष्ट्रपतेः पञ्चदिवसीया भारत-यात्रा व्यापार-संयोग-सीमा-सुरक्षा-रक्षा-सहयोग-सांस्कृतिक-सम्बन्धानां सुदृढीकरणाय केन्द्रिता अस्ति। कार्यक्रमानुसारं सः एकजून-तिथौ प्रधानमन्त्री नरेन्द्र-मोदिना सह अपि साक्षात्कारं करिष्यति। अन्ते द्वितीय-जून-तिथौ सः मुंबई-नगरं गमिष्यति।

Hindusthan Samachar / Divya Ranjan