Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, ३० मे-मासः (हि.स.)। मुख्यमन्त्री विष्णुदेव-सायः अद्य शनिवासरे राजधानी-रायपुरनगरे आयोजितेषु विविधेषु सामाजिक-सांस्कृतिक-जनसरोकारसम्बद्धेषु कार्यक्रमेषु सहभागं करिष्यति।
दिवसव्यापि निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री साय-महोदयः पत्रकारिता-समाजसेवा-धार्मिक-आयोजनेषु स्वोपस्थितिं दर्शयिष्यति। प्रातः ११:३० वादने मुख्यमन्त्री सुन्दर-सदने आयोजिते पत्रकारिता-गौरव-मार्तण्ड-उत्सवे सहभागं करिष्यति। एषः उत्सवः हिन्दी-पत्रकारितायाः २०० गौरवशालि-वर्षाणां उपलक्ष्ये आयोज्यते, यस्मिन् देशस्य विविधभागेभ्यः वरिष्ठ-पत्रकाराः बुद्धिजीविनश्च सहभागं करिष्यन्ति।
तदनन्तरं मध्याह्ने १२:४० वादनतः १:१० वादनपर्यन्तं मुख्यमन्त्री तेलीबांधा-गुरुद्वारे आयोजिते चित्र-प्रदर्शनी-शहीद-दिवस-कार्यक्रमे सहभागं कृत्वा श्रद्धाञ्जलिं समर्पयिष्यति।
अपराह्णे ३:१० वादनतः ३:४० वादनपर्यन्तं तस्य समयः दुधाधारी-सत्संग-भवने आरक्षितः भविष्यति। निर्धारित-कार्यक्रमाणां समाप्तेः अनन्तरं मुख्यमन्त्री प्रायः ३:५० वादने स्वनिवासं प्रत्यागमिष्यति।
Hindusthan Samachar / Divya Ranjan