Enter your Email Address to subscribe to our newsletters

दिल्ली, ३० मे-मासः (हि.स.)। दिल्ली-राज्यस्य मुख्यमन्त्री रेखा गुप्ता कांवड़-यात्रां ऐतिहासिकीं, सुगमां, भक्तिभावपूर्णां सुरक्षितां च कर्तुं उच्चस्तरीय-कांवड़-समितेः पुनर्गठनं कृतवती। दिल्ली-राज्यस्य संस्कृति-विधि-मन्त्री कपिलमिश्रा समितेः अध्यक्षत्वेन नियुक्तः।
मुख्यमन्त्री शनिवासरे प्रदत्ते वक्तव्ये उक्तवती यत् दिल्ली-सर्वकारः अस्मिन् वर्षेऽपि शिवभक्तेभ्यः सम्मानजनकाः उत्कृष्ट-सुविधाश्च प्रदास्यति। एतदर्थं कांवड़-शिविरेभ्यः विशेष-सहायता प्रदास्यते। विधायकाः अजय-महावरः, अनिल-शर्मा, करनैल-सिंहः, संजय-गोयलः तथा उमंग-बजाजः समितेः सदस्यत्वेन नियुक्ताः सन्ति।
सा उक्तवती यत् कांवड़-यात्रा केवलं पारम्परिक-धार्मिक-आयोजनं नास्ति, अपितु अस्माकं समृद्ध-सांस्कृतिक-विरासतायाः, सामाजिक-सामरस्यस्य जनश्रद्धायाश्च विराट्-महोत्सवः अस्ति। श्रावण-मासे दिल्ली-नगरस्य मार्गेषु दृश्यते शिवभक्तानां विशाल-समागमः भारतस्य सांस्कृतिक-एकतां प्रदर्शयति।
मुख्यमन्त्री उक्तवती यत् कांवड़-व्यवस्था अधुना केवलं प्रशासनिक-कार्यं नास्ति, अपितु सेवा-श्रद्धा-सम्मानानां प्रतीकत्वं प्राप्तवती अस्ति। सर्वकारस्य प्रमुखम् उद्देश्यम् अस्ति यत् दिल्ली-सीमायां प्रविशन् प्रत्येकं कांवड़िया अतिथिरूपेण देवतुल्य-सम्मानं श्रेष्ठ-सुविधाश्च प्राप्नुयात्।
सा अवदत् यत् अध्यक्षस्य कपिल-मिश्रस्य नेतृत्वे नवगठिता समिति: शीघ्रमेव सर्वैः जनपदाधिकारिभिः, दिल्ली-आरक्षक-अधिकारिभिः, लोक-निर्माण-विभागेन, स्वास्थ्य-विभागेन तथा अन्यैः सम्बन्धित-विभागैः सह समीक्षा-सभां करिष्यति। समितेः प्रमुख-केन्द्रबिन्दवः भविष्यन्ति—मार्ग-प्रबन्धनम्, वर्षारोधक-शिविराणां गुणवत्ता, चिकित्सासुविधानां उपलब्धता, चतुर्विंशति-होरात्मक-विद्युत्-जलापूर्तिः तथा सुरक्षा-व्यवस्थायाः सुदृढीकरणम्।
मुख्यमन्त्री उक्तवती यत् गतवर्षाणाम् अपेक्षया शिवभक्तानां सेवायै अभूतपूर्वाः व्यवस्थाः कृताः। वर्षे २०२४ केवलं १७० कांवड़-शिविराणां अनुमतिः प्रदत्ता आसीत्, किन्तु वर्षे २०२५ तु ३७४ पञ्जीकृत-कांवड़-शिविराणि स्थापितानि। एतेषां शिविराणां सञ्चालनार्थं प्रत्यक्ष-लाभ-हस्तान्तरण-प्रणाल्या (डीबीटी) माध्यमेन ५०,००० रूप्यकेभ्यः आरभ्य ११ लक्ष-रूप्यक-पर्यन्तं आर्थिक-सहायता प्रदत्ता, यस्याः पञ्चाशत्-प्रतिशतं भागः पूर्वमेव अग्रिमरूपेण वितरितः आसीत्।
अतिरिक्ततया समितीनां वित्तीय-भारं न्यूनीकर्तुं प्रत्येकं पञ्जीकृत-शिविराय १२०० यूनिट्-परिमितिः यावत् निःशुल्क-विद्युत्-सेवा प्रदत्ता तथा अस्थायी-मीटर-इत्यस्य सुरक्षा-निक्षेपे ७५ प्रतिशत-न्यूनता अपि प्रदत्ता आसीत्।
Hindusthan Samachar / Divya Ranjan