मुख्यमंत्री डॉ. यादवो हिन्दी पत्ररकारिता दिवसस्य दत्तवान् शुभकामनाम्
भोपालम्, 30 मईमासः (हि.स.) ।देशे प्रतिवर्षं ३० मई दिनाङ्के ‘हिन्दीपत्रकारितादिवसः’ आचर्यते। अयं दिवसः हिन्दीभाषायाः प्रथमसमाचारपत्रस्य ‘उदन्तमार्तण्ड’ इत्यस्य प्रकाशनस्मरणार्थम् आचर्यते। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः सर्वेभ्यः पत्रकारबन्
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, 30 मईमासः (हि.स.) ।देशे प्रतिवर्षं ३० मई दिनाङ्के ‘हिन्दीपत्रकारितादिवसः’ आचर्यते। अयं दिवसः हिन्दीभाषायाः प्रथमसमाचारपत्रस्य ‘उदन्तमार्तण्ड’ इत्यस्य प्रकाशनस्मरणार्थम् आचर्यते। अस्मिन् अवसरे मुख्यमन्त्री डॉ. मोहनयादवः सर्वेभ्यः पत्रकारबन्धुभ्यः शुभकामनाः प्रदत्तवान्।

मुख्यमन्त्री डॉ. यादवः शनिवासरे सामाजिकमाध्यमे एक्स माध्यमेन उक्तवान् यत् सर्वेभ्यः पत्रकारबन्धुभ्यः ‘हिन्दीपत्रकारितादिवसस्य’ हार्दिकाः बधायाः शुभकामनाश्च। यदा पण्डितयुगलकिशोरशुक्लः ‘उदन्तमार्तण्ड’ माध्यमेन हिन्दीपत्रकारितायाः आधारशिलां स्थापितवान्, तदा तस्य उद्देश्यं केवलं समाचारप्रेषणं नासीत्, अपितु ‘देशहित’ इति पवित्रसंकल्पः आसीत्। अस्मिन् काले अपि स एव संकल्पः पत्रकारितायाः मानदण्डः भवेत्।

मुख्यमन्त्री डॉ. यादवः उक्तवान् यत् द्विशतवर्षीयायां अस्यां गौरवशालिन्यां यात्रायां हिन्दीपत्रकारितया जनभावनाभ्यः स्वरः प्रदत्तः तथा लोकतन्त्रस्य समृद्ध्यर्थं महत्त्वपूर्णा भूमिका निर्व्यूढा।

---------------

Hindusthan Samachar / Dheeraj Maithani