Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 30 मईमासः (हि.स.)। भारतीयजनतापार्टी भाजपाया राष्ट्रियाध्यक्षः नितिननवीनः शनिवासरे कैण्टविधानसभाक्षेत्रे दलकार्यकर्तृभिः उत्साहपूर्वकं स्वागतितः। अस्मिन् अवसरे भाजपामहानगराध्यक्षस्य सिद्धार्थउमेशअग्रवालस्य नेतृत्वे आयोजितस्य “सेवफ्यूलसेवफ्यूचर” हस्ताक्षरअभियानस्य शुभारम्भः तेन कृतः।
भाजपाराष्ट्रियाध्यक्षः अभियाने सहभागित्वं कृत्वा तस्य प्रशंसां कृतवान् तथा च तत् राष्ट्रहितसम्बद्धं प्रेरणादायकमभियानम् इति वर्णितवान्। तेन अभियानस्य सन्देशं जनजनं प्रति प्रेषयितुम् आह्वानं कृतम्। दलकार्यकर्तारः राष्ट्रियाध्यक्षस्य स्वागतं कृत्वा अभियानसंबद्धतायाः संकल्पं स्वीकृतवन्तः।
महानगराध्यक्षः सिद्धार्थउमेशअग्रवालः उक्तवान् यत् “सेवफ्यूलसेवफ्यूचर”इत्येतत् अभियानं केवलम् ईन्धनसंरक्षणस्य सन्देशः नास्ति, अपितु राष्ट्रस्य प्रति अस्माकं दायित्वबोधस्य आगामिपीढीनां सुरक्षितभविष्यस्य च संकल्पः अस्ति। प्रधानमन्त्रिणो नरेन्द्रमोदिनः पर्यावरणसंरक्षणस्य आत्मनिर्भरभारतस्य च दृष्टिकोणं अग्रे नेतुं भाजपाकार्यकर्तारः एषः सन्देशः जनजनं प्रति प्रेषयिष्यन्ति।
तेन उक्तं यत् वर्तमानकाले ऊर्जासंरक्षणं पर्यावरणसन्तुलनं च अत्यन्तावश्यकम् अस्ति। प्रत्येकेन नागरिकेन अस्मिन् दिशि स्वस्य सक्रियभूमिका निर्वाहनीया। तेन उक्तं यत् भाजपाकार्यकर्तारः अस्य अभियानस्य जनान्दोलनरूपप्रदानार्थं निरन्तरं कार्यं करिष्यन्ति। कार्यक्रमस्य अन्ते कार्यकर्तारः महानगराध्यक्षस्य नेतृत्वे अभियानं गृहंगृहं प्रति प्रेषयितुं अधिकाधिकजनान् अस्मिन् संयोजयितुं च संकल्पितवन्तः।
-----------------------
Hindusthan Samachar / Dheeraj Maithani