Enter your Email Address to subscribe to our newsletters

-गुरुग्रामे आयोजिते प्रशिक्षण शिविरे राष्ट्रस्य समक्षं परिस्थितिविषये कृतं मार्गदर्शनम्
गुरुग्रामः, 30 मईमासः (हि.स.)। भाजपायााः नवनियुक्ता प्रदेशाध्यक्षा डॉ अर्चनागुप्ता “राष्ट्रस्य समक्षं परिस्थितयः” इति विषये कार्यकर्तॄणां मार्गदर्शनम् अकरोत्। तया कार्यकर्तारः संगठनस्य मेरुदण्डः इति उक्तम्। पण्डितदीनदयालउपाध्यायप्रशिक्षणमहाभियानस्य अन्तर्गतं बादशाहपुरतः टीकलीमार्गे शनिवासरे माधवगढ़फार्म इत्यत्र आयोजिते जिलाप्रशिक्षणवर्गशिविरे सा उक्तवती यत् भाजपायाः प्रशिक्षणवर्गः केवलं शिक्षणस्य मञ्चः नास्ति, अपितु राष्ट्रसेवायाः संकल्पः अस्ति।
डॉ अर्चनागुप्ता उक्तवती यत् प्रशिक्षणवर्गः कार्यकर्तृषु नूतनऊर्जां, उत्साहं तथा सकारात्मकपरिवर्तनं जनयितुं प्रभावी माध्यमम् अस्ति, येन संगठनं अधिकं सुदृढीभविष्यति। अस्मात् पूर्वं कार्यक्रमे आगमनसमये जिलाध्यक्षः सर्वप्रियत्यागी कार्यकर्तृभिः सह नवनियुक्तायाः प्रदेशाध्यक्षायाः डॉ अर्चनागुप्तायाः जोरदारस्वागतं कृतवान्। प्रदेशाध्यक्षा डॉ अर्चनागुप्ता उक्तवती यत् प्रधानमन्त्रिणः मोदिनः नेतृत्वे भारतम् अद्य विश्वमञ्चे शीघ्रं उद्यमाना शक्तिरूपेण प्रतिष्ठितं भवति, किन्तु तेन सह अनेकाः चुनौतीः अपि समुपस्थिताः सन्ति। तया उक्तं यत् देशः आन्तरिकबाह्यरूपेण उभयप्रकारकाणां परिस्थितीनां सामना करोति, तासां समाधानार्थं समाजस्य संगठनस्य च सजगभूमिका आवश्यकाऽस्ति।
डॉ अर्चनागुप्ता उक्तवती यत् सीमासुरक्षा, आतंकवादः, साइबरअपराधः, सामाजिकवैमनस्यं प्रसारयन्तः तत्त्वाः तथा भ्रामकप्रचारः इत्यादयः चुनौतीः राष्ट्रस्य एकतां अखण्डतां च प्रभावितुं प्रयतन्ते। एतादृशे काले भाजपाकार्यकर्तॄणां दायित्वम् अधिकं वर्धते। तया कार्यकर्तृभ्यः समाजमध्ये गत्वा शासनस्य जनकल्याणकारीनीतयः तथा राष्ट्रहितसम्बद्धविषयान् जनान् प्रति प्रापयितुम् आह्वानं कृतम्। तया उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतम् आत्मनिर्भरतायाः, सुशासनस्य तथा विकासस्य मार्गे अग्रे गच्छति। कार्यकर्तृभिः “राष्ट्रं प्रथमम्” इति भावनया सह संगठनं सुदृढं कर्तुं समाजे सकारात्मकवातावरणनिर्माणाय सक्रिययोगदानं दातव्यम्।
डॉ अर्चनागुप्ता उक्तवती यत् पण्डितदीनदयालउपाध्यायप्रशिक्षणअभियानस्य मुख्योद्देश्यः कार्यकर्तॄणां दलस्य विचारधारायाः, संगठनात्मककार्यप्रणाल्याः तथा राष्ट्रहितस्य प्रति समर्पितभावेन प्रशिक्षणं दातुम् अस्ति। प्रदेशाध्यक्षा उक्तवती यत् भाजपायाः प्रत्येकः कार्यकर्ता “राष्ट्रं प्रथमम्” इति भावनया कार्यं करोति। प्रशिक्षणअभियानं कार्यकर्तॄन् एतत् शिक्षयति यत् परिस्थितीः अवसररूपेण कथं परिवर्तनीयाः तथा समाजस्य अन्तिमव्यक्तिः विकासस्य मुख्यधारया कथं संयोजनीयः। तया उक्तं यत् जनता अधुना मिथ्यावचनानां भ्रमराजनीतेः च अपेक्षया विकासं सकारात्मकपरिवर्तनं च अधिकं महत्त्वं ददाति।
प्रशिक्षणवर्गस्य समये डॉ अर्चनागुप्ता महिलासशक्तीकरणम् इति विषये अपि विस्तरेण स्वविचारान् प्रस्तुतवती। तया उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः तथा मुख्यमन्त्रिणः नायबसिंहसैनी इत्येतयोः नेतृत्वे महिलाः आत्मनिर्भराः सशक्ताश्च भवन्तु इति उद्देश्येन अनेकाः योजनाः सञ्चाल्यन्ते।
Hindusthan Samachar / Dheeraj Maithani