स्वस्थो नागरिकः एव ‘विकसित दिल्ल्याः’ दृढाधारः : तरनजीतः
नवदिल्ली, 30 मईमासः (हि.स.)।दिल्लीनगरस्य उपराज्यपालः तरनजीतसिंहसन्धू शनिवासरे दिल्लीविश्वविद्यालयस्य समीपे उत्तरीरिजस्थिते बोंटा पार्के प्रातःभ्रमणं कुर्वन् जनैः सह संवादं कृतवान्। अस्मिन् समये तेन उद्यानानां संरक्षणं तथा सुविधाः विषये जनानां प्रति
दिल्ली विश्वविद्यालय के पास उत्तरी रिज स्थित बोंटा पार्क में मॉर्निंग वॉक करते दिल्ली के उपराज्यपाल तरनजीत सिंह संधू


नवदिल्ली, 30 मईमासः (हि.स.)।दिल्लीनगरस्य उपराज्यपालः तरनजीतसिंहसन्धू शनिवासरे दिल्लीविश्वविद्यालयस्य समीपे उत्तरीरिजस्थिते बोंटा पार्के प्रातःभ्रमणं कुर्वन् जनैः सह संवादं कृतवान्। अस्मिन् समये तेन उद्यानानां संरक्षणं तथा सुविधाः विषये जनानां प्रतिक्रियाः ज्ञाताः।

उपराज्यपालेन सामाजिकमाध्यममञ्चे एक्स इत्यत्र लेखं प्रकाशित्य प्रधानमन्त्री नरेन्द्रमोदीप्रणीतस्य ‘फिट इंडिया मूवमेंट’ इत्यस्य महत्त्वं प्रतिपादितम्। तेन उक्तं यत् स्वस्थनागरिकाः, उत्तमसार्वजनिकस्थानानि तथा जनभागीदारी एव ‘विकसितदिल्ली’ इत्यस्य दृढाधाराः सन्ति। आगामिपीढीनां कृते दिल्लीनगरस्य हरितप्रदेशान् सुरक्षितान् सुन्दरान् च कर्तुं स्वीयप्रतिबद्धता अपि तेन पुनरुक्ता।

उपराज्यपालेन उक्तं यत् उद्याने जनान् व्यायामं कुर्वतः तथा परिवारान् हरितपरिवेशे समयं यापयन्तः दृष्ट्वा अत्यन्तं सुखानुभवः जातः। दिल्लीनगरस्य जनाः स्वस्वास्थ्यं फिटनेस च प्रति यथा जागरूकाः सन्ति, तत् दृष्ट्वा सन्तोषः अभवत्।

अस्मिन् अवसरे स्थानीयजनाः संवादसमये उद्यानस्य सुविधाः अधिकं उन्नताः कर्तुं स्वीयसुझावान् विचारांश्च प्रस्तुतवन्तः। तेन उक्तं यत् जनानां सुझावाः अस्माकं सार्वजनिकस्थानानां तथा दिल्लीनगरस्य उन्नयनार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति।

उपराज्यपालेन उक्तं यत् वयं दिल्लीनगरस्य हरितप्रदेशान् सुरक्षितान् स्थापयितुं तथा तान् अधिकं उन्नतान् कर्तुं पूर्णतया प्रतिबद्धाः स्मः। अस्माकं प्रयत्नः अस्ति यत् सर्वे उद्यानानि सार्वजनिकस्थानानि च सर्वेषां जनानां कृते स्वच्छानि, सुन्दराणि, सुविधायुक्तानि च भवन्तु।

तेन सर्वेभ्यः सहकार्येण दिल्लीनगरं स्वच्छं, स्वस्थं, हरितं च नगरं निर्मातुं स्वीययोगदानं दातुं आह्वानं कृतम्।

-----------

Hindusthan Samachar / Dheeraj Maithani