लोकसभाध्यक्षः केन्द्रीय मंत्री च हिंदी पत्रकारिता दिवसस्य अदत्तां शुभकामनाम्
नव दिल्ली, 30 मईमासः (हि.स.)। लोकसभा-अध्यक्षः ओम् बिरला तथा केन्द्रीय-कृषि-किसान-कल्याण-मन्त्री शिवराजसिंह-चौहानः सहिताः अनेकाः मन्त्रिणः शनिवासरे हिन्दी-पत्रकारिता-दिवसस्य अवसरॆ सर्वेभ्यः पत्रकारेभ्यः लेखकाभ्यः च हार्दिक-शुभकामनाः प्रेषितवन्तः।
प्रतीकात्मक चित्र


नव दिल्ली, 30 मईमासः (हि.स.)।

लोकसभा-अध्यक्षः ओम् बिरला तथा केन्द्रीय-कृषि-किसान-कल्याण-मन्त्री शिवराजसिंह-चौहानः सहिताः अनेकाः मन्त्रिणः शनिवासरे हिन्दी-पत्रकारिता-दिवसस्य अवसरॆ सर्वेभ्यः पत्रकारेभ्यः लेखकाभ्यः च हार्दिक-शुभकामनाः प्रेषितवन्तः।

ओम् बिरला शुभकामनाः प्रेषयन् एक्स् इत्यत्र उक्तवान् — “अस्माकं देशे हिन्दी-पत्रकारिता समाजस्य चेतनायाः, लोकतन्त्रस्य दृढतायाः तथा जनभावनानाम् अभिव्यक्तेः सशक्तं माध्यमम् अस्ति। समये समये जनजागरणे, सामाजिक-परिवर्तने तथा राष्ट्रीय-एकतायाः सुदृढीकरणे अस्याः महत्त्वपूर्णा भूमिका अभवत्। परिवर्तमान-समये तथा तकनीकी-क्रान्तेः युगे हिन्दी-भाषायाः प्रासङ्गिकता निरन्तरं वर्धिता इति अत्यन्तं सुखकरम् अस्ति। अद्य हिन्दी केवलं समाचारपत्रेषु तथा दूरदर्शन-माध्यमेषु एव सीमिता नास्ति, अपितु डिजिटल-माध्यमेषु, सामाजिक-माध्यमेषु, सङ्गणकेषु, अन्तर्जाले तथा कृत्रिम-बुद्धिमत्ता-प्रौद्योगिक्याः माध्यमेन कोटिशः जनान् प्रभावी-रूपेण प्राप्नोति। हिन्दी-भाषायां समाचाराणां, विचाराणां तथा विश्लेषणानां वर्धमाना स्वीकृतिः अस्याः भाषायाः शक्तिं व्यापकतां च प्रदर्शयति। हिन्दी-पत्रकारिता-दिवसे वयं हिन्दी-भाषायाः संवर्धनस्य तथा लोकतान्त्रिक-मूल्यानां सुदृढीकरणस्य संकल्पं अधिकं दृढं कुर्मः।”

शिवराजसिंह-चौहानः उक्तवान् यत् हिन्दी-पत्रकारिता स्वस्य गौरवमय-यात्रायां समाजस्य जागरणे, लोकतन्त्रस्य सशक्तीकरणे तथा जनसरोकाराणां प्रभावी-अभिव्यक्तौ महत्त्वपूर्णां भूमिकां निर्वहितवती अस्ति। पत्रकारितायाः लोकहितस्य सामाजिक-उत्तरदायित्वस्य च भावनानुसारं यूयं सर्वे राष्ट्रस्य समाजस्य च उन्नतौ स्वीयं योगदानं निरन्तरं ददतु।

केन्द्रीय-वस्त्र-मन्त्री गिरिराजसिंहः उक्तवान् यत् “लेखन्याः शक्त्या” समाजं जागरूकं, प्रबुद्धं सशक्तं च कर्तुं तथा निष्पक्षतया जनजनस्य वाचं उत्थापयितुं प्रयत्नशीलान् लोकतन्त्रस्य सर्वान् सजग-प्रहरीन् सादरं नमनम्।

केन्द्रीय-सामाजिक-न्याय-अधिकारिता-मन्त्री वीरेन्द्रकुमारः उक्तवान् यत् हिन्दी-पत्रकारिता केवलं समाचार-सङ्ग्रहस्य इतिहासः नास्ति, अपितु जनचेतनायाः, सामाजिक-परिवर्तनस्य तथा राष्ट्र-निर्माणस्य सशक्ता धारा अभवत्। सत्यता, निष्पक्षता तथा जनहितस्य मूल्यानि केन्द्रे स्थापयित्वा हिन्दी-पत्रकारितया लोकतन्त्रस्य सुदृढीकरणे समाजस्य जागरणे च अमूल्यं योगदानं दत्तम् अस्ति। लोकहितस्य राष्ट्रहितस्य च स्वरं निरन्तरं मुखरयन्ती हिन्दी-पत्रकारिता उत्तरोत्तरं प्रगतिं कुर्यात्, इति एव कामना अस्ति।

---------------